Book Title: Abhigyan Shakuntalam Nam Natakam
Author(s): Mahakavi Kalidas, Guruprasad Shastri
Publisher: Bhargav Pustakalay

View full book text
Previous | Next

Page 3
________________ // श्रीः॥ काचन विज्ञप्तिः नाटकस्याऽस्य प्रणेता महाकविः श्रीकालिदासो विक्रमार्कस्य सभायामदभ्रं शारदावैभवं विस्तारयन्नासीदिति प्रसिद्धमेव / तेन प्रायो वत्सराणां द्विसाहस्री ( 2000 वर्षाणि ) समतीताऽस्य जन्मत आरभ्याऽद्य यावदिति निश्चितप्रचमेतत् / काचन कल्पना / अत्र नाटके वर्णितः-काश्यपाश्रम' इदानीं 'काशीपुर'-(नैनीताल) नाम्ना प्रसिद्धः स्यात् / अप्सरस्तीर्थञ्च–'हापुड़' ( मेरठ-) नाम्नाऽद्य प्रसिद्धं स्यात् / शक्रावतारतीर्थञ्च–'सूकरताल' नाम्ना वा ('सोरों-एटा' प्रान्ते ) इदानीं प्रसिद्धं स्यात्, 'हापुड़' समोपे वा तीर्थान्तरं स्यात् / __राज्ञश्च दुष्यन्तस्य हस्तिनापुर-( गढमुक्तेश्वर'-गजरौला'--'परीक्षितपुर') पर्यन्तं विस्तृतं प्रसिद्धं निवासस्थानं राजधानी स्यात् / किंपुरुषवर्षश्च-इदानीं 'रूस' इति, 'रूसो तुर्किस्तान' इति वा प्रसिद्धः स्यात् / साइबेरियाप्रान्ते, काश्यपसागरे वा मारीचाश्रमः स्यादिति / देवनिवासश्च 'उत्तरध्रुव'प्रान्ते स्यात्-इत्यादि रीत्या केषांचन कल्पना / . एवमेव सहारनपुरसमीपे मालिनी नदी, कण्वाश्रमश्चास्तीति केचित् प्रतिपादयन्ति / ___ अस्मिन्संस्करणे दाक्षिणात्यपाठोऽपि परिशिष्टतया निवेशितइछात्राणामुपकाराय प्रभवेदिति स्वर्णसौरभयोग एवायम् / अद्य यावदेकत्र संस्करणे गौड-दाक्षिणात्यपाठानां समन्वयस्याऽभावादिदमेवोभययोगि संस्करणं सर्वातिशायीति चेति वाराणसी / -श्रीगुरुप्रसादशास्त्रिणः, 25-10-56 / आचार्य-श्रीसीतारामशास्त्री च /

Loading...

Page Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 ... 640