Book Title: Abhidhan Chintamani kosha
Author(s): Hemchandracharya,
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
लिङ्गानुशासनम् । स्थालीकदल्यौ स्थलजालपित्तला
गोलायुगल्यो बडिशं च छर्दि च । अलाबु जम्बूडुरुषः सरः सदो, रोदोऽर्चिषी दाम गुणे त्वयट तयट् ॥ १२७
इति स्त्रीनपुंसकलिङ्गाः। खतस्त्रिलिङ्गः सरकोऽनुतर्षे शललः शले। करकोऽब्दोपले कोशः, शिम्बा खड्गपिधानयोः ॥ १२८ जीवः प्राणेषु केदारे, वलजः पवने खलः । बहुलं वृत्तनक्षत्रपुराद्याभरणाभिधाः ॥ १२९ भल्लातक आमलको, हरीतकबिभीतकौ । तारकाढकपिटकस्फुलिङ्गा विडङ्गतटौ १३० पटः पुटो वटो वाटः, कपाटशकटौ कटः । पेटो मठः कुण्डनीडविषाणास्तूणकङ्कतौ ॥ १३१ मुस्तः कुथेङ्गुदजृम्भदाडिमाः, पिठरप्रतिसरपात्रकंदराः । नखरो वलरो दरः पुरश्छत्रः कुवलमृणालमण्डलाः १३२ नालप्रणालपटलार्गलशृङ्खलकन्दलाः ।.. पूलावहेलौ कलशकटाही षष्टिरेण्विषु ॥ १३३
इति खतस्त्रिलिङ्गाः।
Jain Education International For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800