Book Title: Abhidhan Chintamani kosha
Author(s): Hemchandracharya, 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 796
________________ १३. पक्षान्तरे समूहार्थे हेताववधृतावपि । अन्वाचये तथा तुल्ययोगितायां च कीर्तितः ॥१६॥ छः सूर्ये छेदके ख्यातस्तथा संवरणे भवेत् । छञ्च छन्दसि तडिति निर्मले च तथा स्मृतः ॥१७॥ जश्च जेतरि जनने विगते जिस्तु जेतरि । जूर्विहायसि जवने पिशाच्यां विगतेऽपि च ॥१८॥ झो नक्तं गायने नष्टे घर्घरध्वनिनामनि । चारुवाक्चारयोझस्तु व्यूहने गूढरूपके ॥ १९ ॥ टः पृथिव्यां ध्वनौ वायौ करके पुनर्भुवि । चकोरेऽब्दे तथा ठस्तु घटे शून्ये बृहद्ध नौ ॥२०॥ चन्द्रस्य मण्डले रुद्रे डो वृषाङ्के ध्वनावपि । बन्दिवृन्दे तथा डः स्यात् यामिनीपतिमण्डले ॥२१॥ ढो ढक्कायां समाख्यातस्तथा ढा निर्गुणे ध्वनौ । णः प्रकटे निष्कले च प्रस्तुते ज्ञानबन्धयोः ॥२२॥ तकारस्तस्करे युद्धे कोडे पृच्छे च ता श्रियाम् । तु स्यात्पूर्वे निवृत्तौ च पूर्वस्मादवधारणे ॥ २३ ॥ विलक्षणे विकल्पार्थे थो भवेद्भयरक्षणे । भूधरे च तथा भारे दो दाने दायकेऽपि च ॥२४॥ दाने दातरि दा केचिद्विदुर्दा छेदबन्धयोः । दं कलत्रं तथा धञ्च धीरे च धनदे धने ॥ २५ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 794 795 796 797 798 799 800