Book Title: Abhidhan Chintamani kosha
Author(s): Hemchandracharya,
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
हः शूलिनि करे नीरे क्रोधे गर्भप्रभाषणे।। निवासेऽथाव्ययो हः स्यात्संबुद्धौ पादपूरणे ॥ ४५ ॥ अव्ययो हा स्मृतः शोके तथा दुःखविषादयोः । हि हेतौ पादपूर्ती च विशेषे चावधारणे ॥ ४६ ।। स्फटे दानेऽथाव्ययो ही दुःखहेतौ च विस्मये ॥ विषादे चाव्ययो हं तु नये काये च भाषणे ॥ ४७॥ हुमव्ययः परिप्रश्ने वितर्के वचने तु हो। हे कुत्सायां तथा हेतौ हूतौ संबोधने तु हो ॥४८॥ राक्षसे क्षस्तथा क्षेत्रे शब्दा ये यक्षरादयः। खरान्ता व्यञ्जनान्ताश्च ज्ञेया ग्रन्थातरात्तु ते ॥ ४९ ॥ मलधारिगच्छभर्तुः सूरेः श्रीराजशेखरस्य गुरोः । शिष्यः सुधाकलश इत्येकाक्षरनाममालिकामतनोत्५०
इति एकाक्षरनाममाला समाप्ता॥
Jain Education International For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 797 798 799 800