Book Title: Abhidhan Chintamani kosha
Author(s): Hemchandracharya,
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
JM
।
यश्च घातरि सूर्ये स्वाद्या माने बातरि खानेऽपि च रः कामे तीक्ष्णे वैश्वानरे नरे ॥ ३६ ॥ रामे वज्रे च शब्दे स्याद् राद्रव्ये कनके पुनः । आश्रये नीरदे च स्याद् रुः सूर्ये रक्षणेऽपि च ॥३७॥ भये शब्दे च री भ्रान्तौ लकारश्चलने पुनः । लादाने लूश्व लवने लश्च लूश्च बिडौजसि ॥ ३८ ॥ लश्चामृते दिशायां च ली: श्लेषे वलये तथा । वो बाते वरुणे रुद्रे सान्त्वने चाव्ययः पुनः ॥३९॥ एवार्थे उपमाने च विकरूपे च समुच्चये । विः श्रेष्ठे भीते नानार्थे वै तौ पादपूरणे ॥ ४० ॥ द्वितीयायाश्चतुर्थ्याश्च षष्ठ्या युष्मद्बहुत्वके । वश्वासां च विभक्तीनां द्वित्वे वां कथितो बुधैः ॥ ४१ ॥ आकाशे विहगे विश्वेशं श्रेयसि सुखेऽव्ययः । शस्तु शान्ते च सास्नायां शीः शये हिंसनेऽपि ॥ ४२॥ शुश्चन्द्रे षः सदारः स्यात्तथेष्टे प्रसवे तु षूः । सः सूर्ये च परोक्षे च सं सङ्कोचेऽव्ययस्तु सम् ॥४३॥ संगार्थे शोभनार्थे च प्रकृष्टार्थसमर्थयोः । प्रथमान्तस्तदः स्थाने स्मृतौ लक्ष्म्यां च सोच्यते ॥४४॥
Jain Education International For Private & Personal Use Only www.jainelibrary.org

Page Navigation
1 ... 796 797 798 799 800