Book Title: Abhidhan Chintamani kosha
Author(s): Hemchandracharya,
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
ऊमव्ययः प्रकर्षोक्तौ प्रश्ने ऋर्देवमातरि । अव्यय ऋतु कुत्सायां वचनेऽपि तथैवच ॥ ६ ॥ ऋस्त्वजे दानवाञ्छायां ऋश्व स्याद्देवमातरि । ऋर्वाराह्यां भवेदेस्तु विष्णावस्तु वृषध्वजे ॥ ७ ॥ ओरुवंलिङ्ग आहूतावव्ययः स्यादनन्त ओ। संबोधने चाव्यय ओ परब्रह्मण्यमः शिवे ॥ ८ ॥ कः सूर्यमित्रवाय्वग्निब्रह्मात्मयमकेकिषु । प्रकाशवक्त्रयोश्चापि के नीरसुखमूर्धसु ॥ ९ ॥ कुर्भूकुत्सितशब्देषु पापीयसि निवारणे । ईषदर्थे च किंशब्दः कुत्सने क्षेपप्रश्नयोः ॥ १० ॥ वितर्काश्चर्यनिन्दासु किंशब्दः स्यात् कियानपि । खमिन्द्रियवर्गशून्यभूषाकाशसुखेषु च ॥ ११ ॥ संविदि शून्यखण्डे च वर्तते खश्च भास्करे । गो गन्धर्वे गणेशे च गीते गं गश्च गातरि ॥१२॥ गौर्वाणीबाणभूरश्मिवज्रवर्गाक्षिवारिषु । दिशि धेनौ श्रुतेश्वर्या गणेशे चापि गौः स्मृतः ॥१३॥ घः कुम्भे हनने घोषान्तर्भावकिङ्किणीष्वपि । को विषये भैरवे च चस्तरौ चन्द्रचौरयोः ॥ १४ ॥ चुश्चकोरे समाख्यातश्चकारः पुनरव्ययः । अन्योऽन्यार्थे विकल्पार्थे समासे पादपूरणे ॥.१५ ॥
Jain Education International For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 793 794 795 796 797 798 799 800