Book Title: Abhidhan Chintamani kosha
Author(s): Hemchandracharya, 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 793
________________ वाराणसीत्यपि प्रोक्ता वारणासी वराणसी । ताम्रलिप्ता दामलिप्ता तुङ्गोऽप्युत्तुङ्ग इत्यपि ॥ ४६॥ अन्तस्थीययकारश्च पवनस्य तु कथ्यते। तन्त्रवायस्य बायेऽपि तत्रादित्वं च दृश्यते ॥ ४७ ॥ एवमन्येऽपि चार्हादाबूह्या वर्णप्रयोगतः । मूर्धरेफादयो ज्ञेयाश्छन्दोभङ्गभयादिह ॥ १८ ॥ छन्दावभिप्रायवशौ कलजः स्यात्कलाजवत् । हखादिरपि पीडायां धनुःकोट्यामपीष्यते ॥ ४९ ॥ एतौ मध्यतवर्गीयौ बैडूर्यमणिशाद्वौ। तालव्यमध्यो विशद ऊर्ध्वशब्दो बकारवान् ॥५०॥ यावन्यां च भवान्यां च श्रावणे मासि मध्यवः । शफे खुरं कवर्गीयं क्षकारश्च क्षुरपके ॥ ५१ ।। नापितस्योपकरणे कषसंयोग इप्यते । अव्ययान्यव्ययं शत्रौ दोषाशब्दः प्रचक्षते ॥ ५२ ॥ प्रायो भवेयुः प्रचुरप्रयोगाः प्रामाणिकोदाहरणे प्रतीताः । रूपादिभेदेषु विचारणेषु विचक्षणो निश्चयतामुपैति ॥ ५३ ॥ कचिन्मात्राकृतो भेदः कचिद्वर्णकृतोऽत्र च । कचिदर्थान्तरोल्लेखाच्छन्दानां रूडितः कचित् ॥५४॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 791 792 793 794 795 796 797 798 799 800