Book Title: Abhidhan Chintamani kosha
Author(s): Hemchandracharya, 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 792
________________ वर्षाः स्युर्वरिषामिस्तु हविषापि हविता सर्षपः स्यात्सरिषपः कर्षः स्यात्करिषेण च ॥ १६ ॥ मारिषो मर्ष इत्युक्तः परशुः पर्श एव च । हारितो हरितोऽपि स्यान्मुनिपक्षिविशेषयोः ॥३७॥ तुवरस्तूवरोऽपि स्यात्कुवरः कूवरस्तथा । . उत्तमोऽनुत्तमोऽपि स्यादाहतं स्यादनाहतम् ॥ ३८ ॥ उदारे चानुदारः स्यादुदने चानुदग्रवत् । कोंकोणः कोंकणश्चापि मिहिरो महिरस्तथा ॥ ३९ ॥ महिलायां महेलापि महला स्यान्महेलिका । छेदश्छेकश्च छेकालो विदग्धे छेकिलोऽपि च ॥४०॥ गूगुलो गुग्गुलोऽपि स्याद्धिले चापि हिङ्गुलम् । मन्दिरे मन्दिरापि स्याद्वीर्ये वीर्यापि कथ्यते ॥४१॥ भुक्तेऽप्यवालं चावालमुदके स्यादुदं समम् । दुष्टभेदे शतरुषः शतारुश्च निगद्यते ॥ ४२ ॥ नेकद्रेकाणद्रकाणा भवन्त्यपि दृकाणवत् । पत्राकमपि पत्राओं कुद्दालश्च कुदालवत् ।। ४३ ॥ मारुषं मारिषं शाके प्रीहा प्लीहा गदेऽपि च । फेणाफेणिस्तथाध्यादौ करिण्यां कारिणीति च ॥४४॥ धरित्री धारयित्री च तरीषी तारषी तथा । कन्याकुब्ज कान्यकुब्जं. कोशलोत्तरकोशला ॥४५॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 790 791 792 793 794 795 796 797 798 799 800