Book Title: Abhidhan Chintamani kosha
Author(s): Hemchandracharya,
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
वेशो वेषध कथितो मुषोऽपि स्यानुसस्तथा । स्वाद्धनुर्धनुषा सार्थ जरसा च जरां विदुः ॥ १७ ॥ सूकरः शूकरोऽपि स्यात्सृगालश्च शृगालवत् । सूरः शूरश्च कथितः कलसः कलशोऽपि च । तनुश्ध तनुषा सार्धं धनुना च धनुर्विदुः ॥ १८ ॥ सुनासीरः शुनासीरो नारायणनरायणौ । यातुधानो जातुधानो लक्षणो लक्ष्मणोऽपि च ॥ १९॥ श्वशुरः स्वसुरोऽपि स्याच्चरित्रं चरितं तथा । पारदं पारतं वासा बासकः कृमिणः कृमिः ॥ २० ॥ त्रिफला त्रिफलं चापि कसरा किशरापि च । भवेदृष्टिस्तथा विष्टिः मियालः स्यात्पियालवत् ॥ २१॥ कलाटिनः कलाटीनो बलिशो बडिशोऽपि च । संकरः शंकरोऽपि स्यान्मलो मुगलोऽपि च ॥ २२॥ मुद्गरो मनुरश्वापि मकुटं मुकुटं त्विह । सुकृतं सुकृतं चापि चुलुकं चूलकं तथा ॥ २३ ॥ करञ्जः करजोऽपि स्यात्परेतः प्रेत उच्यते । किर्मीरोऽपि च कर्मी हायनं हयनं स्मृतम् ॥ २४ ॥ शौण्डीयमपि शौण्डीरं ज्येष्ठे ज्यैष्ठोऽपि दृश्यते । सौदानी च सुदानी च सौदामन्यपि दृश्यते ॥२५॥
Jain Education International For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 788 789 790 791 792 793 794 795 796 797 798 799 800