________________
सूत्रामापि च सुत्रामा हनूमान्हनुमानपि । दुषणं स्यादृषणं च भवेदुषरमूषरम् ॥ ७ ॥ बन्धुरं बन्धुरं च स्यादूरीकृतमुरीकृतम् । वाह्रीकं वाहिकं चापि गाण्डीवं गाण्डिवं तथा ॥८॥ उषाप्यूषा ननन्दा च ननान्दापि प्रकीर्तिता। चाण्डालोऽपि च चण्डालो वादान्योऽपि वदान्यवत्॥९॥ हालाहलं हालहलं वदन्त्यपि हलाहलम् । हल्लालं च हलालं च हाहलं च प्रचक्षते ॥ १० ॥ प्रकाणः प्रकणश्चापि श्यामाकः श्यामकोऽपि च । साहचरः सहचरः स्फाटिकं स्फटिकं तथा ॥ ११ ॥ गन्धर्वोऽपि च गान्धर्वश्चमरचामरस्तथा । चोरश्चौरश्चटुश्चाटुश्चोलं चेलं चमुश्चमूः ॥ १२ ॥ चञ्चुश्वञ्चूस्तलस्तालः श्यामलः स्यामलस्तथा । धान्याकमपि धन्याकं युतकं यौतकं तथा ॥ १३ ॥ कवाटं च कपाटं च कविलं कपिलं तथा । करवालः करपालोऽक्नीपकवनीपकौ ॥ १४ ॥ पारावतः पारवतो जरा स्याज्जरसा सह । जटायुषा जटायुश्च विन्द्यादायुस्तथाऽऽयुषा ॥ १५ ॥ सायं सायो भवेत्कोशः कोषः शण्डच षण्डवत् । भाविकं भविकं चापि मुपलं मुसलं तथा ॥१६॥
Jain Education International For Private & Personal Use Only
www.jainelibrary.org