Book Title: Abhidhan Chintamani kosha
Author(s): Hemchandracharya,
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
इन्द्रियेन्धनरोगे च रुर्भवे च प्रकीर्तितः । लो दीप्तौ द्यां लश्च भूमौ भये चाह्लादनेऽपि च ॥३०॥ लो वाते लवणे च स्याल्लो दाने च प्रकीर्तितः । लः श्लेषे चाशये चैव प्रलये साधनेऽपि लः ॥ ३१ ॥ मानसे वरुणे चैव लकारः सान्त्वनेऽपि च । विश्व पक्षी निगदितो गगनं परिकीर्तितम् ॥ ३२ ॥ शं सुखं शंकरः श्रेयः शश्च सीम्नि निगद्यते । शयने शः समाख्यातो हिंसायां शो निगद्यते ॥३३॥ षः कीर्तितो बुधैः श्रेष्ठे षश्च गम्भीरलोचने । उपसर्गे परोक्षे च षकारः परिकीर्तितः ॥ ३४ ॥ सः कोपे वरणे सः स्यात्तथा शूलिनि कीर्तितः । साच लक्ष्मीबुधैः प्रोक्ता गौरी सा च स ईश्वरः ३५ हः कोपे वारणे हश्च तथा शूली प्रकीर्तितः । हि: पद्मावरणे प्रोक्तो हिः स्याद्धेत्ववधारणे ॥३६॥ क्षः क्षेत्रे वक्षसि प्रोक्तो बुधैः क्षः शब्दशासने। क्षिा क्षेत्रे क्षत्ररक्षे च नृसिंहे च प्रकीर्तितः ॥३७॥ आगमेभ्योऽभिधानेभ्यो धातुभ्यः शब्दशासनात् । एवमेकाक्षरं नामाभिधानं रचितं मया ॥ ३८ ॥
इत्येकाक्षरकोशः समाप्तः॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800