Book Title: Abhidhan Chintamani kosha
Author(s): Hemchandracharya, 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 788
________________ श्रीः । श्रीपुरुषोत्तमदेवप्रणीतः कोशः शब्दभेदप्रकाशः। ॥ श्रीगणेशाय नमः॥ प्रबोधमाधातुमशाब्दिकानां कृपामुपेत्याविशतां कवीनाम् । कृतो मया रूपमवाप्य शब्द भेदप्रकाशोऽखिलवाङ्मयार्थः ॥ १॥ विन्द्यादगारमागारमपगामापगामपि । अरातिमारातिमथो अम आमः प्रकीर्तितः ॥ २ ॥ भवेदमर्ष आमर्षोऽप्यकुरोऽङ्कर एव च । अन्तरिक्षमन्तरीक्षमगस्त्योऽगस्तिरेव च ॥ ३ ॥ अटरूपश्चाटरूषोऽप्यवस्योऽवश्य एव च । प्रतिश्यायः प्रतीश्यायो भल्लूको भल्लुकोऽपि च ॥४॥ उल्मूकमुल्मुकं प्राहुः शम्बूकमपि शम्बुकम् । जतुका स्याज्जतूकापि मयूरो मयुरो मतः ॥ ५ ॥ वास्तुकं चापि वास्तूकं देवकी दैवकीति च । ज्योतिषं ज्यौतिषं चापि ष्ठेवनं ष्ठीवनं तथा ॥६॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800