Book Title: Abhidhan Chintamani kosha
Author(s): Hemchandracharya,
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
-
-
-
एकाक्षरकोशः।
my
अकारो वासुदेवः स्यादाकारस्तु पितामहः । पूजायामपि माङ्गल्ये आकारश्च प्रकीर्तितः ॥ १ ॥ इकार उच्यते कामो लक्ष्मीरीकार उच्यते। : उकारः शङ्करः प्रोक्त ऊकारश्चापि लक्षणे ॥ २ ॥ रक्षणे चापि ऊकार अकारो ब्रह्मणि स्मृतः ।। ऋकारो वेदमाता स्याहकारो दनुजप्रसूः ॥ ३ ॥ लकारो देवजातीनां माता सद्भिः प्रकीर्तिता। . लकारः स्मर्यते पूर्वैर्जननी शब्दकोविदः ॥ ४ ॥ एकार उच्यते विष्णुरैकारः स्यान्महेश्वरः ।। ओकारस्तु भवेद्ब्रह्मा ओंकारोऽनन्त उच्यते ॥ ५॥ अं स्याच परमं ब्रह्म अ: स्याच्चैव महेश्वरः । . कः प्रजापतिरुद्दिष्टः कोऽर्कवाय्वनलेषु च ॥ ६ ॥ कश्चात्मनि मयूरे च कः प्रकाश उदाहृतः । के शिरो जलमाख्यातं कं सुखं च प्रकीर्तितम् ॥७॥ पृथिव्यां कुः समाख्यातः कुः शब्देऽपि प्रकीर्तितः । खमिन्द्रिये खमाकाशे खः खर्गेऽपि प्रकीर्तितः ॥८॥ सामान्ये च तथा शून्ये खशब्दः परिकीर्तितः । गो गणेशः समुद्दिष्टो गन्धर्वो गः प्रकीर्तितः ॥९॥
Jain Education International For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800