Page #1
--------------------------------------------------------------------------
________________
શ્રી યશોવિજયજી
જૈન ગ્રંથમાળા છે દાદાસાહેબ, ભાવનગર,
ee She%e-2૦eo : [p[2
૩૦૦૪૮૪s
|2 82_
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #2
--------------------------------------------------------------------------
________________
Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #3
--------------------------------------------------------------------------
________________
(२०२ ३०११ आत्मतत्त्वप्रकाशः
न्यायविशारद-न्यायतीर्थमुनिश्रीन्यायविजय
विरचितः
वि. सं. २०१०-मार्गशीर्षः
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #4
--------------------------------------------------------------------------
________________
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #5
--------------------------------------------------------------------------
________________
AUTHURA
WATARA
उपक्रमः ।
जगत् किस्वरूपमिति विचार्यमाणं जड़-चेतनरूपतत्त्वदयमानं प्रतीयते । नास्त्येतद्वयातिरिक्तं तत्त्वम् । विश्वविश्वविश्वपदार्था अस्मिन् द्वयेऽन्तर्भवन्ति । जडरूपं च चेतनरूपं चेति द्विधा विभज्यते द्रव्यम् ।
यत्र चैतन्यं नास्ति तज्जडतत्त्वम् । तद्विपरीतं चैतन्यरूपं चेतनतत्त्वम् । चेतनो जीव आत्मा इत्यनान्तरम् । ज्ञानशक्तिस्तलक्षणम् ।
जोवः। ____ जीवोऽन्यपदार्थवन, दृश्यते प्रत्यक्षम् । परन्तु स्वानुभवप्रमाणेन शक्यते ज्ञातुम् । 'अहं सुखी,' 'अहं दुःखी' इत्यादिरूपं संवेदनं शरीरस्य पृथिव्यादिभूतमूर्तित्वेन जडत्वान्न भवितुमर्हति । इच्छा-भावनादयो गुणा मृतकशरीरे न सन्तीति सर्वप्रतीतम्, अतस्ते गुणा न शरीरस्य, किन्तु तत्त्वान्तरस्येति प्रतीयते । तब तत्त्वान्तरमात्मा । घटपटाद्यन्यभौतिकजडपदार्थेष्विव भौतिकजडशरीरे शानेच्छाभावनादिधर्मधर्मित्वं न भवितुमर्हति । अतस्तदाधार आत्मा। अमूर्त ज्ञान मूर्तानां भूतानां गुणो भवितुं नार्हति, तत् कथं भौतिकशरीरस्य गुणः स्यात् ?
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #6
--------------------------------------------------------------------------
________________
:२: शरीरे पञ्चेन्द्रियाणि सन्ति, परन्तु तानि साधनतयोपयुञ्जान आत्मा तेभ्यो भिन्न एव । आत्मा हि तै रूपरसादिविषयान् गृह्णाति । चक्षुषा रूपं पश्यति, रसनया रसं रसयति, घ्राणेन गन्धं जिघ्रति, श्रवणेन शब्दं शणोति, त्वचा च स्पृशति । यथा लेखनीछुरिकया (Pen-knife ) लेखनी निर्मिमीते मणिलालः, तत्र लेखनीछुरिका निर्माता च भिन्नावेव; दात्रेण लुनाति सहदेवः, तत्र दानं लविता च मिन्ने एव; दीपेन पश्यति कान्तिलालः, तत्र दीपो द्रष्टा च पृथगेव; तथा इन्द्रियै रूपरसादिविषयग्रहणेषु इन्द्रियग्रामो, विषयग्रहीता च मिन्नावेव । साधकः स्वकार्यसाधने साधनमपेक्षते, उपयुक्ते च, परन्तु एतावता साधकसाधनयोरेकत्वं न स्यात् । ते भिन्ने एव भवतः । इन्द्रियाण्यात्मनो ज्ञानप्राप्तौ साधनभूतानि, अतो विषयग्रहण- . साधनभूतेभ्यस्तेभ्यो विषयग्राहक आत्मा भिन्न एव भवति । ____ मृतशरीरे सत्स्वपि करणेषु मृतकस्य तद्द्वारा न किमप्युपजायते ज्ञानम् , अतो ज्ञायते इन्द्रियाणि तद्द्वारा च रूपादिविषयग्राहक आत्मा पृथगेवेति । इन्द्रियाणामात्मत्वेऽभ्युपगम्यमाने तानि पञ्चे. त्येकस्मिन् देहे पश्चात्मानः प्रसज्येरन् , तच्चाघटितम् । __ यस्य चक्षुरुपहतं सोऽन्धीभूतोऽपि प्राक् चक्षुःसद्भावदशायां दृष्टान् भावान् स्मरति-दृष्टपूर्वाः पदार्थास्तस्य स्मृतिमुपतिष्ठन्ते । इदं कः करोति स्मरणम् ? चक्षुः ? तत् तु नास्ति । किं तीन्द्रियान्तरम् ? न । एकेन ह्यनुभूतं दृष्टं वा नान्यः शक्नोति स्मर्तुम् । अतश्चक्षुषा दृष्टं तदन्यकरणेन न शक्यते स्मर्तुम् । य एव यस्य अनुभविता द्रष्टा वा स एव तस्य स्मर्ता इति हि न्यायः। एवं च चक्षुषा दृष्टानां तद्विरहेऽपि स्मरणं यद् भवति तदेवेन्द्रियातिरिक्तरूपेणात्मनोऽस्तित्वं गमयति । आत्मा हि चक्षुःसद्भावदशायां तद्
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #7
--------------------------------------------------------------------------
________________
द्वारा स्वदृष्टानां वस्तूनां तद्विरहेऽपि तद्भूतपूर्वदर्शनानुभवस्थापितसंस्कारसमुद्बोधनबलेन स्मरणं कर्तुं शक्नोति । इत्थमनुभवस्मरणयोः परस्परघनिष्ठसामानाधिकरण्यसम्बन्धबलेनापि चैतन्यरूप स्वतन्त्रमात्मतत्त्वमुपपद्यते ।
'अहममुकं वस्तु दृष्ट्वा अस्पाक्षम् , ततोऽघासिषम्, ततश्चाररसम्' इत्येवम्भूतोऽनुभवो यदा-तदाऽस्माकं भवन् स्पष्टमवगमयति तस्य वस्तुनो द्रष्टा, स्पी, घाता, रसयिता च भिन्ना न सन्ति, किन्तु एक एवेति । कः खल्वेकः सः ? चक्षुः ? न, तस्य हि कार्य केवलं दर्शनमस्ति, न स्पर्शनादि । एवमेव स्पर्शनमात्रप्रवणं त्वगिन्द्रिय, घाणमात्रपरायणं घ्राणं, रसनमात्रनियतं रसनं च न। सर्वप्रतीताद् अस्मादनुभवाद् द्रष्टा, स्प्रष्टा, घ्राता, रसयिता च य एकोऽस्ति स इन्द्रियातिरिक्त आत्मा इति समवसीयते ।
आधुनिकवैज्ञानिकान्वेषणसिद्धेषु द्वानवतौ तत्त्वेषु नैकतममपि तत्त्वं स्वसंवेदनक्षमम् । अतः स्वसंवेदनात्मकं तत्वं तद्भिन्नमुपपद्यते, तस्य च सङ्गच्छमानं स्थेमानमाश्रित्य पुनर्जन्मापि।
आत्मा वर्णरहित इति बाह्यभौतिकवस्तुवन्न भवति प्रत्यक्षः । एतावता स नास्तीति वक्तुमसाम्प्रतम् । परमाणवश्चर्मचक्षुषा न दृश्यन्ते, तथापि स्वीक्रियन्ते । स्थूलकार्योत्पत्तिः परमाणुसंघातमपेक्षते इत्यनुमया तत्सवमुपपद्यते । परमाणवो मूर्ता [रूपिणः-] अपि सन्तः प्रत्यक्षा न भवन्ति, तर्हि अमूर्तोऽरूप्यात्मा सुतरामप्रत्यक्षो भवेदेवास्मदादीनामित्यत्र किमाश्चर्यम् ? कार्यद्वारा परमाणवो यदि प्रत्यक्षायमाणा. शक्यन्ते वक्तुम् , तदा आत्मापि तस्य प्रत्यक्षेण ज्ञानरूपकार्येण शक्यते वक्तुं प्रत्यक्ष इति । यस्य धर्माः प्रत्यक्षाः
स प्रत्यक्ष इति हि न्यायः । अत एव शब्दो नाकाशगुणो भवितुमर्हति । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #8
--------------------------------------------------------------------------
________________
शब्दस्य हि प्रत्यक्षत्वेनाकाशस्य प्रत्यक्षविषयत्वमापद्येत; अथवा आकाशस्याप्रत्यक्षत्वेन शब्दस्य (श्रावण ) प्रत्यक्षत्वं विहन्येत । शब्दस्य भौतिकद्रव्यरूपत्वं चेदानीन्तनेन 'स्वरवाहक' [Phonograph] यन्त्रेण स्पष्टं स्थापितम् । वायुस्तत्स्पर्शप्रत्यक्षानुभवद्वारा उच्यते प्रत्यक्षः ।
किञ्च कश्चिद् धीमान्-कश्चिन्मूर्खः, कश्चित् स्वामी-कश्चित् सेवकः, कश्चिच्छ्रेष्ठी-कश्चन कर्मकरः, कश्चिद् धनी-कश्चिद् दरिद्रः, कश्चित् स्वस्थ-सुरूपः-कश्चिदस्वस्थ-विरूपः, कश्चिदामयावी-कश्चिन्निरामयः, एवं कश्चन सुखी-कश्चन दुःखी, इत्यादयोऽनन्तवैचित्र्यो विश्वे विलोक्यन्ते, नामूरकारणं भवितुमर्हन्ति । प्रचुरप्रयत्नतोऽपि प्रज्ञावतोऽपि' न निर्वर्तते स्वमीहितम् , अन्यस्य च तदनायासेन सम्पद्यतेऽल्पायासेन वा। ईदृशोऽनेकघटना अस्मदृष्टिसमक्षमुपजायमाना उपलभ्यन्ते। एकस्या एव योषितः कुक्षितः सहजातयुगलस्य जीवनयात्रे अतिविभिन्ने, अतिविपरीते अपि प्रवर्तमाने दृश्यते । समानतया पालितपोषितानामपि महान् बुद्धिभेदो दृश्यते, जीवनवहनं च परस्परविरुद्धरूपम् । तेजस्विनस्तनयो निस्तेजाः, निस्तेजसश्च सुतेजा भवति । किमत्र कारणम् ? न तत् कारणं केवलपार्श्ववर्तिपरिस्थितिष्वेव पर्याप्तं स्यात् । सावधानं गच्छत्यपि वर्तमानेऽपि वा वानराद्याकस्मिकोपद्रवसमुत्थेष्टकादिप्रपतनसम्भूतमन्यविधं वाऽऽकस्मिकमत्याहितमापतति, किमत्र कारणम् ? निरपराधेनापि मिथ्याभियुक्तीभूय घोरयातनात्मकः प्राणान्तरूपो वा दण्डो भोक्तव्यो भवति, वास्तवापराधी च तिरोभूत्या शाठ्यपूर्णवाग्जालबलेन वा अपराधदण्डमभुक्त एवावतिष्ठते, किमत्र कारणम् ? गर्भारम्भत आरभ्य जन्मपर्यन्तं कष्टं यदनुभवति भ्रूणस्तत्
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #9
--------------------------------------------------------------------------
________________
स्वकृतिहेतुकं वा तन्मातरपितरकृतिहेतुकं वा ? इत्यपि विचारास्पदमुपतिष्ठते । तत्र न तावदाद्यो विकल्पः समर्थः, गर्भावस्थायां हि न किमपि तेन कृतमस्ति शुभाशुभम् । नापि द्वितीयः, न हि अन्यकर्मफलमन्यो भुञ्जीत । अकारणं तु तन्न भवितुमर्हति । किमत्र कारणम् ? ईदृशं प्राणिजगतो बहुबहुविधवैचित्र्यं दृश्यमानं निहतुकमनियामकं वा तु कथं स्यात् ? किञ्चित् मूलप्रयोजकतत्त्वं तु तत्पृष्ठभूमाववश्यं स्यात् । ईगविचारसरणिमाश्रित्य बहुश्रुतमेधाविनोऽनुमिमते पूर्वजन्मानुसंहित-कर्मसत्ताम् । समर्थितायां च तस्यां तदावृतमात्मतत्त्वं सिद्धमेव । आत्मा हि सुखदुःखदकर्मपुजेन अनादिसमभिसम्बद्धोऽस्ति । तन्निन्नमेव च तस्य [आत्मनो] भवभ्रमणं नानाविधदशापरिवर्तनचक्र वा। इत्थं कर्मण्यात्मनि चोपपद्यमाने परलोक ( पुनर्जन्म )सिद्धान्तः स्वतस्तत्संयुक्त एव समुपतिष्ठते । प्राणिभिः क्रियमाणाः सदसत्यः क्रिया नहि निष्फला भवितुमर्हन्ति । यद्यपीह जन्मनि दृश्यन्ते काश्चिदफलेग्रहयस्ताः, तथापि जन्मान्तरे ताः (स्वस्थापितसंस्कारेण) स्वफलमुपनयेरन् । प्राणिनां स्वक्रियोत्तरदायित्वत एव कर्मणस्तत्सम्बद्धात्मनः, परलोकस्य च सिद्धान्तः समर्थितो भवति । यद्विधानि हि सदसन्ति कार्याणि प्राणी करोति तदनुरूपं फलं तदनुरूपफलानुसारिणी वा पुनर्जन्मगतिमवाप्नोति । यथा भोजन-पानं शरीरान्तर्गत्वा स्वोचितपरिणाममुपजनयति, तथा क्षणिका अपि क्रियाः स्वसंस्कारमादधते [जीवे ]। आधाय चोपरमन्ति । एष संस्कारोऽथवा वासना एव 'कर्म'। तच्चैकविभिन्नप्रकारकपरमाणुद्रव्यसंघातात्मकमेके समामनन्ति महर्षयः । एवंविधानि नवनवानि कर्माणि आत्मक्रियावशादात्मना संयुज्यन्ते, पुराणानि च स्वावधिसमाप्तौ विशीर्यन्ते । सदसत्कार्यतो बद्धानि सदसन्ति कर्माणि परलोकपर्यन्तम् , अनेक
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #10
--------------------------------------------------------------------------
________________
जन्मपर्यन्तमपि वात्मनि फलानुभावनमन्तरेण'सत्ता' रूपेणावतिष्ठन्ते; फलविपाकोदयसमये चोदित्य मिष्टानि कटूनि वा स्वफलानि जीवमनुभावयन्ति । फलविपाकभोगावधिं यावत् तानि फलानि जीवोऽनुभवति । भुक्तानि च तानि कर्माणि जीवाद् विघटन्ते ।
एतादृशप्रमाणावष्टम्भेन तथा 'सुख्यहम् ', 'दुःख्यहम् ' इत्याद्याकारकेण-नहि शरीरे, न चेन्द्रियेषु, किन्त्वन्तरात्मनि स्पष्टमनुभूयमानेन–प्रत्यक्षरूपेण संवेदनेनापि देहेन्द्रियादिविभिन्नं स्वतन्त्रमात्मतत्त्वमुपपद्यमानमवसीयते । जीवभेदाः। ___ जीवा द्विधा-संसारिणो मुक्ताश्च । संसारे-भवे [भवचक्रे ] भ्रमणकर्तारः संसारिण उच्यन्ते । 'संसार' शब्दः 'सम् '-. पूर्वक 'स्' धातुतो निष्पन्नः। 'सृ' धातोरों गमनं-भ्रमणम् । 'सम्' उपसर्गस्तमेवार्थ पुष्णाति । इत्थं संसारस्यार्थों निष्पन्नो, भ्रमणम् । चतुरशीतौ लक्षेषु योनीनाम् , चतसृषु वा गतिषु [ मनुष्यतिर्यक्-स्वर्ग-नरकगतिषु ] परिभ्रमणं संसारः, परिभ्रमणकर्तारश्च संसारिणोऽभिधीयन्ते। प्रकारान्तरेण 'संसार' शब्दस्यार्थों भ्रमणभूमयो योनयो गतयो वाऽपि भवन्ति । 'संसार' शब्देन शरीरमपि गृह्यते । एवंरीत्या संसारमास्थिताः प्राणिनः संसारिण उच्यन्ते । 'संसार' शब्दस्य मूलभूतोऽर्थ आत्मनः कर्मबद्धावस्था। तदेव च संसारिजीवत्य लक्षणम् ।
* आचार्यहरिभद्रेण शास्त्रवार्तासमुच्चये चतुर्थस्तबके बुद्धोद्गाररूपेणोपन्यस्तोऽयं श्लोकः"इत एकनवते कल्पे शक्त्या में पुरुषो हतः।
तेन कर्मविपाकेन पादे विद्धोऽस्मि भिक्षयः ! ॥१२॥" Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #11
--------------------------------------------------------------------------
________________
संसारिजीवानां भिन्नभिन्नरीत्या अनेकविधा भेदा निर्दिश्यन्ते । परन्तु मुख्यतया सूक्ष्माः स्थूलाश्चेति ते द्विधा । सूक्ष्माः पृथ्वीजल-तेजो वायु-वनस्पतिकायाः पञ्चधा । ते 'स्थावरा' अप्युच्यन्ते । ते स्पर्शनलक्षणैकेन्द्रियाः सन्त एकेन्द्रियाः। ते अदृश्या दृश्याश्चेति द्वेधा । अस्मत्करणागम्यैरत्यन्तसूक्ष्मैरदृश्यैस्तैः समग्रलोको घन-सान्द्रं संव्याप्तो वर्तते । दृश्याः पृथ्वी-जल-तेजो-वायु-वनस्पतिकायास्तु प्रत्यक्षमुपलभ्यन्ते, उपयुज्यन्ते, उपभुज्यन्ते च । घर्षणच्छेदनादिप्रहारमप्राप्ता मृत्प्रस्तरादिः पृथ्वी येषांजीवानां शरीरपिण्डस्ते दृश्यपृथ्वीकायाः । अनलाद्याघातमनुपगता वापी-कूपा-ऽऽपगा-तडागाद्यापो येषां जीवानां कायपिण्डस्ते दृश्यजलकायाः । दीप-दहन-विद्युदादि तेजो येषां जीवानां पुद्गलपिण्डस्ते दृश्यतेजस्कायाः । अनुभूयमानो वायुयॆषां जीवानां देहपिण्डस्ते दृश्यवायुकायाः। वृक्ष-शाखा-प्रशाखा-पत्रपल्लव-पुष्प-फल-कन्दादिवनस्पतयो येषां जीवानां वपुष्पिण्डस्ते दृश्यवनस्पतिकायाः । *
उक्तसचेतनपृथ्वी यदा छेदन-भेदनाद्याघाततस्तद्गतजीवास्ततच्यवन्ते, तदा अचेतना भवति । एवमाप उष्णीकरणेन, शर्करादिमिश्रीक्रियया वा अचेतना भवन्ति । वनस्पतयोऽप्येतया रीत्या अचेतनीभवन्ति ।
त्वग-जिह्ये द्वे इन्द्रिये दधतो द्वीन्द्रियाः । ते कृमि-शङ्ककपर्द
___ * वनस्पतिषु सचेतनत्वं विज्ञानविशारदश्रीजगदीशचन्द्रवसुमहाशयेन विज्ञानप्रयोगतः प्रमाणितमस्ति । समग्राकाशोदरं सूक्ष्मजीवर्घन-खचितमस्तीत्याधुनिकवैज्ञानिकमतम् । वैज्ञानिकान्वेषणानुसारेण “ थेक्सस् " नामा जन्तुरियल्लघुरस्ति यत् ते जन्तव एकसूच्यग्रकोटावेकलक्षमप्यनाबाधमवतिष्ठेरन् ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #12
--------------------------------------------------------------------------
________________
शुक्तिका-गण्डूपद-जलूकादयः। यूका-मत्कुण-मत्कोटक-लिक्षा-पिपीलिकाकुन्थु-घृतेल्यादयस्त्वम्-जिह्वा-घ्राणतस्त्रीन्द्रियाः। त्वगू-जिह्वा-घ्राणनेत्रैश्चतुरिन्द्रियाः पतङ्ग-मक्षिका-भ्रमर-दंश-मशक-वृश्चिकादयः । त्वग-जिह्वा-घ्राण-नेत्र-श्रोत्राणि पञ्चेन्द्रियाणि धारयन्तः पञ्चेन्द्रियाः। ते चतुर्धा । मत्स्योरगभुजगपक्षिचतुष्पदास्तिर्यग्योनिजाः, सर्वे च मनुष्याः, स्वर्गभूमयो देवाः, नरकभूमयो नारकाश्च । ___ स्थूलेषु द्वीन्द्रिय-त्रीन्द्रिय-चतुरिन्द्रिय-पञ्चेन्द्रिया गृह्यन्ते । ते 'सा' अप्युच्यन्ते । इत्थं सूक्ष्म-स्थूलेषु [ स्थावर-त्रसेषु वा] जीवेषु समग्रसंसारिजीवराशयः समाविशन्ति । मोक्षः। __ अथ मुक्तजीवाः। ते मुक्ति प्राप्ताः। मुक्तिश्च समप्रकर्मावरणेभ्यस्तदुत्थशरीरादिभ्यश्चात्यन्तिकी मुक्तिः । सा च केवलशुद्धास्मावस्था । अत एव सा कैवल्यमप्युच्यते।
न सन्ति यत्र देहेन्द्रियाणि वनिता-विभवाश्च तत्र किं सुखं भवेत् ? इत्यारेकमाणः कथं विस्मरति एते विषया [विषयवासना] एव दुःखमूलम् ? सा वासना खलु सन्तापस्वभावा । तस्यां सत्यां कुतः सुखम् ? तदूरहितप्रशमावस्थैव यथार्थसुखम् । सरसाशनपानसमास्वादनेऽनुभूयमान आनन्दोऽशनायानिबन्धनः। पूर्णोदराय न रोचते पीयूषदेशीयमप्यशन-पानम् । शीताति-परिहाराय गृह्यमाणमंशुकं निदाघे कष्टायमानं भवति । बह्वासित उत्तिष्ठासति, अटिटिषति च । चाचल्यमानश्चोपविविक्षति, विशिश्रमिषति च । आदावनुकूलायमाना कामक्रिया अन्ते प्रतिकूलायते । ईदशः खल्विमा वैषयिकस्थितयः । सुखसाधनत्वेन प्रतीयमाना भङ्गुरपदार्था भगुरशान्ति विहाय किमुपजनयन्ति सुखम् ? । पक्वः स्फोटो यदा स्फुटति तदा "हा...श"
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #13
--------------------------------------------------------------------------
________________
रूपतो यत् संवेद्यते सुखं तद् वेदनोपशमव्यतिरिक्तमस्ति किश्चित् ? तथैव विषयानुषङ्गे प्रतीयमानं सुखं वेदनोपशान्तिमन्तरेण नास्ति किश्चित् । शान्तिरप्यसौ कियच्चिरमवस्थास्नुः ? सद्य एव अल्पक्षणान्तरे वा विलीयते; उत्तिष्ठति च पुनराक्रममाणमशान्तवातावरणम् । अल्पक्षणाप्यसौ शान्तिानिविमुक्ता नास्ति, अल्पैवास्ति ।
कियदुल्बणाश्च जगति रागद्वेषोत्पाताः कामक्रोधज्वालाश्च ? कियदुद्दामानि च रोगशोकाक्रमणानि ? एषा स्थितिः किं सुखात्मा ? शान्ति-तृप्तिमात्रापेक्षया अशान्त्यतृप्तिमात्रा न सन्ति किम्वत्यधिकतराः?
विषयसम्पर्कोऽशक्य एव खलु दूरीकर्तुम् , तथापि तदासक्तिमता न भाव्यम् ; भाव्यं चाकर्षक-प्रलोभकेभ्यः, 'पातनकारितया च सम्भाव्यमानेभ्यो भासमानेभ्यो वा विषये
भ्यः सावधानीभूय दूरवर्तिना, इत्येव परमार्थः। जीवननिर्वाहा देहवतां निसर्गाऽऽपतितो विधेय एव भवति । यथा स्वस्थमचादिवाहनं दूर-सुदूरं नेतुमलकर्मीणं भवति, तथा स्वस्थ शरीरमात्मन ऊर्ध्वप्रगतये उपयोगि भवति । अतः समपेक्षितमस्ति तदीयस्वास्थ्यम् । .आहारविहारप्रमादसम्भूतरोगाक्रान्तं विषयभोगासक्तिसमुत्यनैवल्यपराहतं वा शरीरं जीवनयात्रिणां महदनिष्टमभद्रम् । “धर्मार्थकाममोक्षाणा
* यदाह वैराग्यशतके भर्तृहरिःतृषा शुष्यत्यास्ये पिबति सलिल स्वादु सुरभि
क्षुधातः सन् शालोन करलयति शाकादिवलितान् । प्रदीप्ते कामाग्नौ सुदृढतरमाश्लिष्यति वधू
प्रतीकारं व्याधेः सुखमिति विपर्यस्थति जनः ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #14
--------------------------------------------------------------------------
________________
मारोग्यं मूलमुत्तमम्” इति हि अगदङ्कारधौरेयमहदनुशासनम् । अतो न्याय्यव्यवसायश्रमोपार्जितशुचिद्रव्यतः समुचितजीवननिहिं समुचितसंयमसहकृतमवलम्ब्य परमादर्शपथविहारपरायणेन भवितव्यमित्यनुशासति जीवनशिक्षां धर्मशास्तारः ।
शरीरयोगोऽवश्यमल्पाधिकदुःखसहचरः, तथापि अहिंसासत्यरूपकुशलकर्तव्यपरायणः कल्याणीबुद्धिस्तात्त्विककल्याणसमभिलाषुकः परमादर्शबद्धलक्षः सजनोऽन्तःप्रशमसुखमनुबोभूयमानो बाह्यान्तरप्रातिकूल्यदुःखसमापतनप्रभावाविष्टमना न भवति । सुदृढधैर्यतः श्रेयोवर्मनाऽधिकाधिक सञ्चरमाणोऽधिकाधिकमात्मजीवनविकासं निवर्तयति। क्रमेण च समुन्नतकल्याणभूमिमधिरुह्य इहैव देहे मुक्तदशामवाप्नोति, मृत्वा च परमनिर्वाणम् ।
कण्डूमानेव कण्डूयनेऽभिमन्यते आनन्दसुखम् , अन्यस्य तत्र रुचिर्भवेदेव कुतः ? तथैव मोहवासनाक्रान्तस्यैव मोहचेष्टा मिष्टा भासते, अन्येषां वीतरागात्मनां कथमसौ रोचेत ? वैषयिकमोहवृत्तिः कण्डूवद् आदौ कश्चिदानन्दं दर्शयन्त्यपि परिणामे परितापजननी । ईदृशी कण्डूः सुज्ञ-धीराणामुपरमति । उपरततादृशकण्डूया महानुभावा आत्मयोगपथे उत्तरोत्तरमुन्नमन्तोऽन्ते पूर्णवीतरागा भवन्ति । इदमेव परमोत्कर्षशालि कल्याणपदं परमधाम । पूर्णात्मनर्मल्यसम्भूतमेतदवस्थासुखमेव वास्तवं पूर्ण च सुखम् । मानवजीवनमहिमा ।
मोक्षप्राप्तिश्च मनुष्यशरीरद्वारा भवति । मनुष्यभूमिरेव आत्मविकासस्य परममुत्कर्षमधिरोदुमुपयोगिनी ।
उक्तं च
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #15
--------------------------------------------------------------------------
________________
" Man is the master of the whole cosmos. If you are not man, be man; if you are an angel, descend to manhood; if you are an animal, ascend to manhood."
अर्थात्-मनुष्यः खलु समग्रविश्वस्वामी । यदि त्वं नाऽसि मानवः, भव मानवः । यदि त्वं स्वर्गसद्, मानवभूमिमवतर । यदि त्वं पशुः, मानवभूमीमधिरोह । __परमतपस्विनः, परमयोगिनः, परमज्ञानिनो वा मनुष्यगतावेव (मनुष्या एव) भवन्ति, ये हि सकललोकमूर्धन्यैर्महद्भिरपि अभिनता अमिनुता अभ्यर्चिताश्च भवन्ति ।
महाकवि 'शेक्सपियर् ' महाशयः स्व 'हेम्लेट' नाटके प्राह
“What a piece of work is man ! How noble in reason ! How infinite in faculty ! In form and moving how express and admirable ! In action how like an angel ! The beauty of the world......the paragon of animals."
अर्थात्-मनुष्यः कीदृशी कर्ममयी कृतिः ! विचारबुद्धिसम्पत्तावसौ कीहङ् महान् ! शक्तो कोहगपारः ! आकारे विहारे च कीहम् विशिष्टः स्तुत्यश्च ! कर्मणि कीडग् देवोपमः ! असौ विश्वसौन्दर्यम् प्राणिष्वादर्शप्रतिमा च ।
मनुष्यात्मा मुक्तिमार्गे विहरमाण उच्चैःक्रममाणो यदा वीतरागचारित्रस्य परां काष्ठामधिष्ठितो भवति तदा तत्कर्मावरणानामुच्छेदेन निरावरणीभूय पूर्णप्रकाशः पूर्णात्मा भवति । सदेहावस्थाया
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #16
--------------------------------------------------------------------------
________________
: १२: मसौ जीवन्मुक्त उच्यते, मृत्यनन्तरं विदेहदशामापन्नो निराकारपूर्णपरब्रह्मात्मा भवति । मोक्षस्यानन्त्यम् ।
न खलु मोक्षः किश्चिदुत्पदिष्णु वस्तु । कर्मावरणबन्धतो हि मुक्तिरेव मोक्षः। अभ्रापसरणे यथा ज्योतिर्मय आदित्यः प्रकाशमानः प्रकटीभवति, तथा कर्मावरणापसरणे सञ्चिज्ज्योतिस्स्वरूप आत्मा सकलस्वरूपेण प्रकाशमानः प्रकटीभवति । एष एव -स्वस्वरूपाविर्भाव एव मोक्षः । एष नित्य-स्थास्नुरनन्त इति.दार्शनिकवृन्दारकाणां मतम्। यदाह महर्षिः श्रीउमास्वातिस्तत्त्वार्थाधिगमशास्त्रे
" दग्धे बीजे यथाऽत्यन्तं प्रादुर्भवति नाङ्कुरः।
कर्मबीजे तथा दग्धे न रोहति भवाङ्कुरः ॥” छान्दोग्योपनिषदाह
" न स पुनरावर्तते न स पुनरावर्तते ।” "क्षीरात् समुद्धृतं त्वाऽयं न पुनः क्षीरतां व्रजेत् । पृथक्कृतस्तु कर्मभ्यो नात्मा स्यात् कर्मवान् पुनः॥" " यथा नीता रसेन्द्रेण धातवः शातकुम्भताम् ।
पुनरावृत्तये न स्युस्तद्वदात्मापि योगिनाम् ॥" इत्यादयोऽपि सन्ति विपश्चिद्वाचः ।
कर्मरूपाणां राग-द्वेष-मोहमलानां तत्प्रवर्तितनवनवकर्मबन्धादि
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #17
--------------------------------------------------------------------------
________________
: १३: सन्ततीनां चानादियोगो वर्तते जीवस्य । उच्छिन्नेषु तेषु मलेषु कर्मबन्धा विरमन्ति, विद्रवन्ति च बद्धपूर्वाणि कर्माणि । इयं हि मोक्षसिद्धिः ।
___ स्वरूपेण सच्चिदानन्दमयशुद्धमात्मानं राग-द्वेष-मोहमलाः कथं लगेयुः ? इति प्रश्नोद्भवनं सम्भवति । परन्तु ते मला आत्मनिअमुकसमये लग्ना इति तु वक्तुमशक्यमेव । एवं ह्युच्यमाने, यदा ते आत्मानमाश्लिष्टास्ततः पूर्वमात्मा निर्मल एव सिध्यति, ततश्च निर्मलात्मनि तल्लगनं नोपपद्यते । निर्मलेऽप्यात्मनि यदि तदाश्लेषः स्यात्, तदा भविष्यत्काले पूर्णप्रयत्नतो मुक्तेः प्राप्तेः पश्चादपि पुनस्तदाश्लेष आपद्येत । अर्थात् निर्मल-विशुद्ध-मुक्तात्मनामपि पुनरपि तत्संश्लेष उपतिष्ठेत । यदि चैवं स्यात् तर्हि मुक्तिनाम तत्त्वमुच्छिद्येत । अत आत्मनो मोहमलो ( राग-द्वेष-मोहमलाः) युज्यतेऽनादिरेव प्रतिपत्तुम् ।।
अनादिमृत्सम्बद्धसुवर्णस्योज्ज्वलचाकचिक्यस्वभावो यथाऽऽवृतोऽस्ति, तथा आत्मनोऽपि शुद्धचैतन्यस्वरूपमनादिसंयुक्तकर्मप्रवाहावरणेनाऽऽवृतमस्ति । अत एव तस्य भवचक्रेऽनेकानेकदुःखविडम्बनास्पदं भ्रमणं प्रवर्तते । मृन्मलीमसं सुवर्ण यथा विशिष्टप्रयोगेण मृविमुक्तीभूयोज्ज्वलितं भवति, यथा वा मलिनदर्पणो निर्णेकेनोज्ज्वलो भवति, तथा आत्मलग्नसकलकर्ममलसमुच्छेदेन आत्मा उज्ज्वलो भवति, स्वविशुद्धस्वरूपे प्रकाशमानो भवति ।
ननु यद्यनादिरात्म-कर्मसंयोगः, तर्हि तस्य नाशो न स्यात्, अनादेर्नाशाभावात् । न । आत्मना सह नवनवानि कर्माणि संयुज्यन्ते, प्राश्चि च विशीर्यन्ते, अतो न काचिदपि कर्मद्रव्यव्यक्ति
रात्मसंयोगमनादिरूपमाबिभर्ति । कर्म बध्यते-संयुज्यते इति तत्संयोग Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #18
--------------------------------------------------------------------------
________________
आदिमानेव, अतस्तेनाऽवश्यमपसर्तव्यम् । प्रत्येकं कर्मद्रव्यव्यक्तिसंयोगा आदिमन्तः, अथ च तत्प्रवाहोऽविच्छिन्नं वहमानोऽनादिरेव । अनादिरप्यसौ प्रत्येकमादिमतां विशरारूणां च कर्मसंयोगानामस्ति, अतः शुक्लसमाधिपूतविशुद्धचारित्रबलेन नवकर्मबन्धनिरोधसमेतप्राकर्मप्रविलापनं शक्नोति भवितुम् । इत्थं सर्वकर्मावरणानां समूलघातं हननं कृत्स्नकर्ममुक्तीभवनं वोपपद्यते आत्मनः ।
किश्च मनुष्यस्थितिमुत्पश्यन्तो जानीमहे तेषां राग-द्वेषा न समानमात्राः, किन्तु तारतम्यभाज इति । एकस्यापि जनस्य रागद्वेषौ कदाचित् तीव्रौ भवतः, कदाचिच्च मन्दौ। एतौ चोत्कर्षा-ऽपकर्षों राग-द्वेषयोर्न भवेतां निर्हेतुको । अतः, उत्कर्षापकर्षगामि वस्तु येन विरोधिनाऽपकृष्यते तस्य बले पूर्णरूपेण प्रादुर्भवति तद् वस्तु पूर्णतया नश्यति, यथा पौषमासशीतं बालरवर्मन्दमन्दतापेनापचीयमानमधिकतापोपनिपातेन सम्पूर्ण विलीयते, इति नियमानुसारेण रागद्वेषौ येनाऽऽध्यात्मिकशुभभावेनापचीयेते तस्य उत्कर्षे पूर्णतामागच्छति सम्पूर्णमहतो विनशितुम् । शुभभावनाबलेन मन्दीभवन्तौ रागद्वेषौ आत्मयोगविकासानुसारेणोत्तरोत्तरमपचीयमानौ तस्मिन् विकासे परां काष्ठामधितिष्ठति समूलघातं हतौ भवतः । हतयोश्च तयोर्वीतरागनिर्मोहीभूतस्सपद्येव सर्वाऽविद्यातः समग्रज्ञानावरणतो वा विमुक्तीभूय परमतत्त्वालोकसम्पन्नो भवति ।
इत्थमात्मा कृत्स्नावरणविमुक्तीभूय परमोज्ज्वलस्वरूपमधिष्ठितः परमात्मा भवति । स एव हीश्वरः । स्वरूपतो हि प्रतिप्राणि आत्मा परमात्मा ईश्वर एव ।
यदभ्यधिषि कल्याणमार्गमीमांसायाम् -
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #19
--------------------------------------------------------------------------
________________
परं तत्त्वं ब्रह्म प्रणिगदति वाचोपनिषदां ___ तदात्मा, नो अन्यत् स च परमचिद्वीर्यमुदितः । स्वरूपादेतस्मात् प्रकृतिसह नात् सोऽस्ति भगवान् ,
अविद्यासम्मोहावरणभरितः संसरति तु ॥ भगवदुपास्तिः ।
परमात्मा ईश्वरो वा वीतरागो जगदनुबन्धिक्रियाव्यापारविरहितः सन्नप्यर्हत्युपासनाम् । न च तदुपासना तं प्रीणयितुम् , किन्तु स्वमनो विशोधयितुम् । समग्रदुःखमूलभूतौ रागद्वेषावुत्सारयितुं तद्रहितस्य परमात्मनो भगवत उपयोग्येव ह्यवलम्बनम् ।
यदवोचं भक्तभारती-स्तोत्रे.पूर्णात्मोदय-दैवतस्य परमं शुद्धोज्ज्वलं जीवनं
स्मृत्वा तद्गुणराशितः स्वयमुपादातुं किमप्यात्मनि । म्लानि मानसिकीमपासितुमयो आध्यात्मिकी प्रेरणा
प्राप्तुं साधयितुं शमं समुचितं भक्त्यात्मकालम्बनम् ॥ चित्तपरिणामाः खलु निमित्तयोगानुसारेण भवन्ति, परिवर्तन्ते चास्मदादीनाम् । सत्सङ्गे हि चित्तं शुक्लं भवति, विपरीते च विपरीतरूपम् । रूपवती रमणीं पश्यतोऽन्यो भावो भवति, स्नेहास्पदं च पुत्रं मित्रं वाऽन्यः, प्रसन्नात्मनि मुनौ चाऽवलोकनपथमुपगच्छति प्रादुर्भवति प्रसन्नता शान्तिमयी, इति निखिलजनप्रतीतिसिद्धम् ।.. सज्जनसंगतिः सुसंस्कारमुपजनयति, दुर्जनसंगतिश्च विपरीतम् । अत एव सत्सङ्गस्यावश्यकत्वमातिष्ठन्ते धीराः। प्रवर्तते च लौकिकी श्रुतिरपि-" सोबत असर" [ यथा सङ्गस्तथा रङ्गः । एवं सति
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #20
--------------------------------------------------------------------------
________________
वीतराग-भगवतः सत्सङ्गः कियान् क्षेमङ्करः स्यात् ! तत्सङ्गश्च तस्य स्मरणं स्तवनं भजन-चिन्तनं वा। तदभ्यासबलमात्मनि रागद्वेषवृत्त्युपशमरूपपरिणामाय सम्पद्यते परमप्रसादरूपाय ।
परमैश्वयों वीतरागो भगवान् पूजकस्य सकाशान्न किमप्यमिकाङ्क्षति, नापि तेन किमप्युपक्रियमाणो भवति । पूजकः केवलस्वहिताय पूज्यं परमात्मानं पूजयति, आसादयति च स्वसमीहितं तदवलम्बनयोगमहिम्ना ।
अभणिषं च भक्तभारत्याम्प्रभो! रागाद् रोषात् त्वमसि बहिरेव ध्रुवतया
तथापि त्वद्भक्तस्त्वदनुगमनस्वादरसिकः-। उपैति स्वाभीष्ट विशदितमनस्सत्वबलतो
मनोऽधीनं सन्तो ह्यभिदधति पुण्यं च दुरितम् ॥ न किञ्चित् कुर्वाणस्त्वमसि न ददानः किमपि वा
तथापि त्वोपास्याऽचलबलमनाः पुण्यचरितः। निज प्रेयः श्रेयः समुपलभते तत् खलु विभो!
स्वदेकाग्रोपास्याप्रभवसुकृतोत्कर्षविहितिः ॥
यथाऽग्निसामीप्यं भजमानस्य शीतं स्वत उड्डीयते, परन्तु नासौ तदर्थ कमप्याकारयति, न वा प्रसद्य औष्ण्यं ददाति; तथा वीतराग-भगवतः सद्गुण-प्रणिधानेन रागादिदोषरूपं शीतं स्वतः पलायितुं प्रवर्तते, आत्मविकासरूपं च फलं सम्पद्यमानं भवति । इत्थं भगवदुपास्तिफलमेतत् स्वाध्यात्मिकप्रयत्नतेजसा समुपलभते उपासकः ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #21
--------------------------------------------------------------------------
________________
ज्ञान-भक्ति-कर्माणि । __ सुख-दुःखानां कारणभूतं कर्म मनोवृत्त्यधीनम्, इति हि सर्वपार्षदम् । अतस्तवृत्तीनां शुभीकरणस्य, तद्द्वारा चात्मविकासस्य सुखशान्तिसम्पादनस्य च साधनमस्ति भगवदुपास्तिः । भगवन्निष्ठया उत्तमोत्तमादर्शनिष्ठया वा सच्चरितीभवनेऽस्मामिः प्रयतितव्यमस्ति ।
भक्तिपात्रवैशिष्ट्यावबोधानन्तरं तद्गुणविभूत्याकर्षणोद्भूतपूज्यत्वभावो भक्तिः । अतश्चासौ ज्ञानाश्रिता । क्षीरे यत् स्थानं सितायास्तद् भक्तेरस्ति ज्ञानें। सुज्ञो भक्तो भगवन्तमनुसरति, तदाज्ञामनुपालयति, तन्मार्गे विहरति, तस्मिंश्चार्पितो भवति । असौ स्वोपास्यपादानुसारीभूय तद्वद् भवितुं प्रयतते-तद्वत् सद्गुणी, सच्चारित्री, सत्कर्मा । प्रयतमानश्चोत्तरोत्तरमभ्युद्गच्छन्नात्मविकासस्य परमकल्याणरूपं चरमशिखरमधिष्ठाय भगवान् भवति । इत्थं भक्तो भगवान् भवति । समर्पणं ज्ञानमात्रेण न भवति, किन्तु ज्ञानोपबंहितेन ज्ञानवीर्यरूपेण भक्तितेजसा । इत्थं ज्ञानसंयुक्तभक्तिः, भक्तिसंयुक्तज्ञानं वा कर्मणो [चारित्रस्य जीवनविधेर्वा] निर्मात् भवति । इत्थं ज्ञान-भक्ति-कर्माणि सम्भूय, एकरसीभूय भगवद्भावमाविष्कुर्वन्ति । सम्यग्दर्शन-ज्ञान-चारित्राणि ।
दर्शन-ज्ञान-चारित्रत्रयं सम्यग् भवेद् यदा।
तदा भवत्यसौ मार्गों मुक्तः परमनिहतेः॥ इह दर्शनं श्रद्धा । सा सम्यगवबोधपूर्विकैव कल्याणाङ्गम् । इदं सम्यग्दर्शनम्, अर्थात् सम्यक्सद्धानं यदाऽऽत्मतत्त्वविषयं चारित्र[चारित्रक्षेमकरत्व ] विषय वाऽभ्युदेति तदाऽऽत्मविकाससाधन
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #22
--------------------------------------------------------------------------
________________ Elchille Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com