SearchBrowseAboutContactDonate
Page Preview
Page 14
Loading...
Download File
Download File
Page Text
________________ मारोग्यं मूलमुत्तमम्” इति हि अगदङ्कारधौरेयमहदनुशासनम् । अतो न्याय्यव्यवसायश्रमोपार्जितशुचिद्रव्यतः समुचितजीवननिहिं समुचितसंयमसहकृतमवलम्ब्य परमादर्शपथविहारपरायणेन भवितव्यमित्यनुशासति जीवनशिक्षां धर्मशास्तारः । शरीरयोगोऽवश्यमल्पाधिकदुःखसहचरः, तथापि अहिंसासत्यरूपकुशलकर्तव्यपरायणः कल्याणीबुद्धिस्तात्त्विककल्याणसमभिलाषुकः परमादर्शबद्धलक्षः सजनोऽन्तःप्रशमसुखमनुबोभूयमानो बाह्यान्तरप्रातिकूल्यदुःखसमापतनप्रभावाविष्टमना न भवति । सुदृढधैर्यतः श्रेयोवर्मनाऽधिकाधिक सञ्चरमाणोऽधिकाधिकमात्मजीवनविकासं निवर्तयति। क्रमेण च समुन्नतकल्याणभूमिमधिरुह्य इहैव देहे मुक्तदशामवाप्नोति, मृत्वा च परमनिर्वाणम् । कण्डूमानेव कण्डूयनेऽभिमन्यते आनन्दसुखम् , अन्यस्य तत्र रुचिर्भवेदेव कुतः ? तथैव मोहवासनाक्रान्तस्यैव मोहचेष्टा मिष्टा भासते, अन्येषां वीतरागात्मनां कथमसौ रोचेत ? वैषयिकमोहवृत्तिः कण्डूवद् आदौ कश्चिदानन्दं दर्शयन्त्यपि परिणामे परितापजननी । ईदृशी कण्डूः सुज्ञ-धीराणामुपरमति । उपरततादृशकण्डूया महानुभावा आत्मयोगपथे उत्तरोत्तरमुन्नमन्तोऽन्ते पूर्णवीतरागा भवन्ति । इदमेव परमोत्कर्षशालि कल्याणपदं परमधाम । पूर्णात्मनर्मल्यसम्भूतमेतदवस्थासुखमेव वास्तवं पूर्ण च सुखम् । मानवजीवनमहिमा । मोक्षप्राप्तिश्च मनुष्यशरीरद्वारा भवति । मनुष्यभूमिरेव आत्मविकासस्य परममुत्कर्षमधिरोदुमुपयोगिनी । उक्तं च Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034720
Book TitleAatmatattvaprakash
Original Sutra AuthorN/A
AuthorNyayavijay
PublisherZZZ Unknown
Publication Year
Total Pages22
LanguageSanskrit
ClassificationBook_Devnagari
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy