________________
: १३: सन्ततीनां चानादियोगो वर्तते जीवस्य । उच्छिन्नेषु तेषु मलेषु कर्मबन्धा विरमन्ति, विद्रवन्ति च बद्धपूर्वाणि कर्माणि । इयं हि मोक्षसिद्धिः ।
___ स्वरूपेण सच्चिदानन्दमयशुद्धमात्मानं राग-द्वेष-मोहमलाः कथं लगेयुः ? इति प्रश्नोद्भवनं सम्भवति । परन्तु ते मला आत्मनिअमुकसमये लग्ना इति तु वक्तुमशक्यमेव । एवं ह्युच्यमाने, यदा ते आत्मानमाश्लिष्टास्ततः पूर्वमात्मा निर्मल एव सिध्यति, ततश्च निर्मलात्मनि तल्लगनं नोपपद्यते । निर्मलेऽप्यात्मनि यदि तदाश्लेषः स्यात्, तदा भविष्यत्काले पूर्णप्रयत्नतो मुक्तेः प्राप्तेः पश्चादपि पुनस्तदाश्लेष आपद्येत । अर्थात् निर्मल-विशुद्ध-मुक्तात्मनामपि पुनरपि तत्संश्लेष उपतिष्ठेत । यदि चैवं स्यात् तर्हि मुक्तिनाम तत्त्वमुच्छिद्येत । अत आत्मनो मोहमलो ( राग-द्वेष-मोहमलाः) युज्यतेऽनादिरेव प्रतिपत्तुम् ।।
अनादिमृत्सम्बद्धसुवर्णस्योज्ज्वलचाकचिक्यस्वभावो यथाऽऽवृतोऽस्ति, तथा आत्मनोऽपि शुद्धचैतन्यस्वरूपमनादिसंयुक्तकर्मप्रवाहावरणेनाऽऽवृतमस्ति । अत एव तस्य भवचक्रेऽनेकानेकदुःखविडम्बनास्पदं भ्रमणं प्रवर्तते । मृन्मलीमसं सुवर्ण यथा विशिष्टप्रयोगेण मृविमुक्तीभूयोज्ज्वलितं भवति, यथा वा मलिनदर्पणो निर्णेकेनोज्ज्वलो भवति, तथा आत्मलग्नसकलकर्ममलसमुच्छेदेन आत्मा उज्ज्वलो भवति, स्वविशुद्धस्वरूपे प्रकाशमानो भवति ।
ननु यद्यनादिरात्म-कर्मसंयोगः, तर्हि तस्य नाशो न स्यात्, अनादेर्नाशाभावात् । न । आत्मना सह नवनवानि कर्माणि संयुज्यन्ते, प्राश्चि च विशीर्यन्ते, अतो न काचिदपि कर्मद्रव्यव्यक्ति
रात्मसंयोगमनादिरूपमाबिभर्ति । कर्म बध्यते-संयुज्यते इति तत्संयोग Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com