________________
आदिमानेव, अतस्तेनाऽवश्यमपसर्तव्यम् । प्रत्येकं कर्मद्रव्यव्यक्तिसंयोगा आदिमन्तः, अथ च तत्प्रवाहोऽविच्छिन्नं वहमानोऽनादिरेव । अनादिरप्यसौ प्रत्येकमादिमतां विशरारूणां च कर्मसंयोगानामस्ति, अतः शुक्लसमाधिपूतविशुद्धचारित्रबलेन नवकर्मबन्धनिरोधसमेतप्राकर्मप्रविलापनं शक्नोति भवितुम् । इत्थं सर्वकर्मावरणानां समूलघातं हननं कृत्स्नकर्ममुक्तीभवनं वोपपद्यते आत्मनः ।
किश्च मनुष्यस्थितिमुत्पश्यन्तो जानीमहे तेषां राग-द्वेषा न समानमात्राः, किन्तु तारतम्यभाज इति । एकस्यापि जनस्य रागद्वेषौ कदाचित् तीव्रौ भवतः, कदाचिच्च मन्दौ। एतौ चोत्कर्षा-ऽपकर्षों राग-द्वेषयोर्न भवेतां निर्हेतुको । अतः, उत्कर्षापकर्षगामि वस्तु येन विरोधिनाऽपकृष्यते तस्य बले पूर्णरूपेण प्रादुर्भवति तद् वस्तु पूर्णतया नश्यति, यथा पौषमासशीतं बालरवर्मन्दमन्दतापेनापचीयमानमधिकतापोपनिपातेन सम्पूर्ण विलीयते, इति नियमानुसारेण रागद्वेषौ येनाऽऽध्यात्मिकशुभभावेनापचीयेते तस्य उत्कर्षे पूर्णतामागच्छति सम्पूर्णमहतो विनशितुम् । शुभभावनाबलेन मन्दीभवन्तौ रागद्वेषौ आत्मयोगविकासानुसारेणोत्तरोत्तरमपचीयमानौ तस्मिन् विकासे परां काष्ठामधितिष्ठति समूलघातं हतौ भवतः । हतयोश्च तयोर्वीतरागनिर्मोहीभूतस्सपद्येव सर्वाऽविद्यातः समग्रज्ञानावरणतो वा विमुक्तीभूय परमतत्त्वालोकसम्पन्नो भवति ।
इत्थमात्मा कृत्स्नावरणविमुक्तीभूय परमोज्ज्वलस्वरूपमधिष्ठितः परमात्मा भवति । स एव हीश्वरः । स्वरूपतो हि प्रतिप्राणि आत्मा परमात्मा ईश्वर एव ।
यदभ्यधिषि कल्याणमार्गमीमांसायाम् -
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com