________________
: १२: मसौ जीवन्मुक्त उच्यते, मृत्यनन्तरं विदेहदशामापन्नो निराकारपूर्णपरब्रह्मात्मा भवति । मोक्षस्यानन्त्यम् ।
न खलु मोक्षः किश्चिदुत्पदिष्णु वस्तु । कर्मावरणबन्धतो हि मुक्तिरेव मोक्षः। अभ्रापसरणे यथा ज्योतिर्मय आदित्यः प्रकाशमानः प्रकटीभवति, तथा कर्मावरणापसरणे सञ्चिज्ज्योतिस्स्वरूप आत्मा सकलस्वरूपेण प्रकाशमानः प्रकटीभवति । एष एव -स्वस्वरूपाविर्भाव एव मोक्षः । एष नित्य-स्थास्नुरनन्त इति.दार्शनिकवृन्दारकाणां मतम्। यदाह महर्षिः श्रीउमास्वातिस्तत्त्वार्थाधिगमशास्त्रे
" दग्धे बीजे यथाऽत्यन्तं प्रादुर्भवति नाङ्कुरः।
कर्मबीजे तथा दग्धे न रोहति भवाङ्कुरः ॥” छान्दोग्योपनिषदाह
" न स पुनरावर्तते न स पुनरावर्तते ।” "क्षीरात् समुद्धृतं त्वाऽयं न पुनः क्षीरतां व्रजेत् । पृथक्कृतस्तु कर्मभ्यो नात्मा स्यात् कर्मवान् पुनः॥" " यथा नीता रसेन्द्रेण धातवः शातकुम्भताम् ।
पुनरावृत्तये न स्युस्तद्वदात्मापि योगिनाम् ॥" इत्यादयोऽपि सन्ति विपश्चिद्वाचः ।
कर्मरूपाणां राग-द्वेष-मोहमलानां तत्प्रवर्तितनवनवकर्मबन्धादि
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com