SearchBrowseAboutContactDonate
Page Preview
Page 20
Loading...
Download File
Download File
Page Text
________________ वीतराग-भगवतः सत्सङ्गः कियान् क्षेमङ्करः स्यात् ! तत्सङ्गश्च तस्य स्मरणं स्तवनं भजन-चिन्तनं वा। तदभ्यासबलमात्मनि रागद्वेषवृत्त्युपशमरूपपरिणामाय सम्पद्यते परमप्रसादरूपाय । परमैश्वयों वीतरागो भगवान् पूजकस्य सकाशान्न किमप्यमिकाङ्क्षति, नापि तेन किमप्युपक्रियमाणो भवति । पूजकः केवलस्वहिताय पूज्यं परमात्मानं पूजयति, आसादयति च स्वसमीहितं तदवलम्बनयोगमहिम्ना । अभणिषं च भक्तभारत्याम्प्रभो! रागाद् रोषात् त्वमसि बहिरेव ध्रुवतया तथापि त्वद्भक्तस्त्वदनुगमनस्वादरसिकः-। उपैति स्वाभीष्ट विशदितमनस्सत्वबलतो मनोऽधीनं सन्तो ह्यभिदधति पुण्यं च दुरितम् ॥ न किञ्चित् कुर्वाणस्त्वमसि न ददानः किमपि वा तथापि त्वोपास्याऽचलबलमनाः पुण्यचरितः। निज प्रेयः श्रेयः समुपलभते तत् खलु विभो! स्वदेकाग्रोपास्याप्रभवसुकृतोत्कर्षविहितिः ॥ यथाऽग्निसामीप्यं भजमानस्य शीतं स्वत उड्डीयते, परन्तु नासौ तदर्थ कमप्याकारयति, न वा प्रसद्य औष्ण्यं ददाति; तथा वीतराग-भगवतः सद्गुण-प्रणिधानेन रागादिदोषरूपं शीतं स्वतः पलायितुं प्रवर्तते, आत्मविकासरूपं च फलं सम्पद्यमानं भवति । इत्थं भगवदुपास्तिफलमेतत् स्वाध्यात्मिकप्रयत्नतेजसा समुपलभते उपासकः । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034720
Book TitleAatmatattvaprakash
Original Sutra AuthorN/A
AuthorNyayavijay
PublisherZZZ Unknown
Publication Year
Total Pages22
LanguageSanskrit
ClassificationBook_Devnagari
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy