________________
ज्ञान-भक्ति-कर्माणि । __ सुख-दुःखानां कारणभूतं कर्म मनोवृत्त्यधीनम्, इति हि सर्वपार्षदम् । अतस्तवृत्तीनां शुभीकरणस्य, तद्द्वारा चात्मविकासस्य सुखशान्तिसम्पादनस्य च साधनमस्ति भगवदुपास्तिः । भगवन्निष्ठया उत्तमोत्तमादर्शनिष्ठया वा सच्चरितीभवनेऽस्मामिः प्रयतितव्यमस्ति ।
भक्तिपात्रवैशिष्ट्यावबोधानन्तरं तद्गुणविभूत्याकर्षणोद्भूतपूज्यत्वभावो भक्तिः । अतश्चासौ ज्ञानाश्रिता । क्षीरे यत् स्थानं सितायास्तद् भक्तेरस्ति ज्ञानें। सुज्ञो भक्तो भगवन्तमनुसरति, तदाज्ञामनुपालयति, तन्मार्गे विहरति, तस्मिंश्चार्पितो भवति । असौ स्वोपास्यपादानुसारीभूय तद्वद् भवितुं प्रयतते-तद्वत् सद्गुणी, सच्चारित्री, सत्कर्मा । प्रयतमानश्चोत्तरोत्तरमभ्युद्गच्छन्नात्मविकासस्य परमकल्याणरूपं चरमशिखरमधिष्ठाय भगवान् भवति । इत्थं भक्तो भगवान् भवति । समर्पणं ज्ञानमात्रेण न भवति, किन्तु ज्ञानोपबंहितेन ज्ञानवीर्यरूपेण भक्तितेजसा । इत्थं ज्ञानसंयुक्तभक्तिः, भक्तिसंयुक्तज्ञानं वा कर्मणो [चारित्रस्य जीवनविधेर्वा] निर्मात् भवति । इत्थं ज्ञान-भक्ति-कर्माणि सम्भूय, एकरसीभूय भगवद्भावमाविष्कुर्वन्ति । सम्यग्दर्शन-ज्ञान-चारित्राणि ।
दर्शन-ज्ञान-चारित्रत्रयं सम्यग् भवेद् यदा।
तदा भवत्यसौ मार्गों मुक्तः परमनिहतेः॥ इह दर्शनं श्रद्धा । सा सम्यगवबोधपूर्विकैव कल्याणाङ्गम् । इदं सम्यग्दर्शनम्, अर्थात् सम्यक्सद्धानं यदाऽऽत्मतत्त्वविषयं चारित्र[चारित्रक्षेमकरत्व ] विषय वाऽभ्युदेति तदाऽऽत्मविकाससाधन
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com