________________
:२: शरीरे पञ्चेन्द्रियाणि सन्ति, परन्तु तानि साधनतयोपयुञ्जान आत्मा तेभ्यो भिन्न एव । आत्मा हि तै रूपरसादिविषयान् गृह्णाति । चक्षुषा रूपं पश्यति, रसनया रसं रसयति, घ्राणेन गन्धं जिघ्रति, श्रवणेन शब्दं शणोति, त्वचा च स्पृशति । यथा लेखनीछुरिकया (Pen-knife ) लेखनी निर्मिमीते मणिलालः, तत्र लेखनीछुरिका निर्माता च भिन्नावेव; दात्रेण लुनाति सहदेवः, तत्र दानं लविता च मिन्ने एव; दीपेन पश्यति कान्तिलालः, तत्र दीपो द्रष्टा च पृथगेव; तथा इन्द्रियै रूपरसादिविषयग्रहणेषु इन्द्रियग्रामो, विषयग्रहीता च मिन्नावेव । साधकः स्वकार्यसाधने साधनमपेक्षते, उपयुक्ते च, परन्तु एतावता साधकसाधनयोरेकत्वं न स्यात् । ते भिन्ने एव भवतः । इन्द्रियाण्यात्मनो ज्ञानप्राप्तौ साधनभूतानि, अतो विषयग्रहण- . साधनभूतेभ्यस्तेभ्यो विषयग्राहक आत्मा भिन्न एव भवति । ____ मृतशरीरे सत्स्वपि करणेषु मृतकस्य तद्द्वारा न किमप्युपजायते ज्ञानम् , अतो ज्ञायते इन्द्रियाणि तद्द्वारा च रूपादिविषयग्राहक आत्मा पृथगेवेति । इन्द्रियाणामात्मत्वेऽभ्युपगम्यमाने तानि पञ्चे. त्येकस्मिन् देहे पश्चात्मानः प्रसज्येरन् , तच्चाघटितम् । __ यस्य चक्षुरुपहतं सोऽन्धीभूतोऽपि प्राक् चक्षुःसद्भावदशायां दृष्टान् भावान् स्मरति-दृष्टपूर्वाः पदार्थास्तस्य स्मृतिमुपतिष्ठन्ते । इदं कः करोति स्मरणम् ? चक्षुः ? तत् तु नास्ति । किं तीन्द्रियान्तरम् ? न । एकेन ह्यनुभूतं दृष्टं वा नान्यः शक्नोति स्मर्तुम् । अतश्चक्षुषा दृष्टं तदन्यकरणेन न शक्यते स्मर्तुम् । य एव यस्य अनुभविता द्रष्टा वा स एव तस्य स्मर्ता इति हि न्यायः। एवं च चक्षुषा दृष्टानां तद्विरहेऽपि स्मरणं यद् भवति तदेवेन्द्रियातिरिक्तरूपेणात्मनोऽस्तित्वं गमयति । आत्मा हि चक्षुःसद्भावदशायां तद्
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com