________________
शब्दस्य हि प्रत्यक्षत्वेनाकाशस्य प्रत्यक्षविषयत्वमापद्येत; अथवा आकाशस्याप्रत्यक्षत्वेन शब्दस्य (श्रावण ) प्रत्यक्षत्वं विहन्येत । शब्दस्य भौतिकद्रव्यरूपत्वं चेदानीन्तनेन 'स्वरवाहक' [Phonograph] यन्त्रेण स्पष्टं स्थापितम् । वायुस्तत्स्पर्शप्रत्यक्षानुभवद्वारा उच्यते प्रत्यक्षः ।
किञ्च कश्चिद् धीमान्-कश्चिन्मूर्खः, कश्चित् स्वामी-कश्चित् सेवकः, कश्चिच्छ्रेष्ठी-कश्चन कर्मकरः, कश्चिद् धनी-कश्चिद् दरिद्रः, कश्चित् स्वस्थ-सुरूपः-कश्चिदस्वस्थ-विरूपः, कश्चिदामयावी-कश्चिन्निरामयः, एवं कश्चन सुखी-कश्चन दुःखी, इत्यादयोऽनन्तवैचित्र्यो विश्वे विलोक्यन्ते, नामूरकारणं भवितुमर्हन्ति । प्रचुरप्रयत्नतोऽपि प्रज्ञावतोऽपि' न निर्वर्तते स्वमीहितम् , अन्यस्य च तदनायासेन सम्पद्यतेऽल्पायासेन वा। ईदृशोऽनेकघटना अस्मदृष्टिसमक्षमुपजायमाना उपलभ्यन्ते। एकस्या एव योषितः कुक्षितः सहजातयुगलस्य जीवनयात्रे अतिविभिन्ने, अतिविपरीते अपि प्रवर्तमाने दृश्यते । समानतया पालितपोषितानामपि महान् बुद्धिभेदो दृश्यते, जीवनवहनं च परस्परविरुद्धरूपम् । तेजस्विनस्तनयो निस्तेजाः, निस्तेजसश्च सुतेजा भवति । किमत्र कारणम् ? न तत् कारणं केवलपार्श्ववर्तिपरिस्थितिष्वेव पर्याप्तं स्यात् । सावधानं गच्छत्यपि वर्तमानेऽपि वा वानराद्याकस्मिकोपद्रवसमुत्थेष्टकादिप्रपतनसम्भूतमन्यविधं वाऽऽकस्मिकमत्याहितमापतति, किमत्र कारणम् ? निरपराधेनापि मिथ्याभियुक्तीभूय घोरयातनात्मकः प्राणान्तरूपो वा दण्डो भोक्तव्यो भवति, वास्तवापराधी च तिरोभूत्या शाठ्यपूर्णवाग्जालबलेन वा अपराधदण्डमभुक्त एवावतिष्ठते, किमत्र कारणम् ? गर्भारम्भत आरभ्य जन्मपर्यन्तं कष्टं यदनुभवति भ्रूणस्तत्
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com