________________
स्वकृतिहेतुकं वा तन्मातरपितरकृतिहेतुकं वा ? इत्यपि विचारास्पदमुपतिष्ठते । तत्र न तावदाद्यो विकल्पः समर्थः, गर्भावस्थायां हि न किमपि तेन कृतमस्ति शुभाशुभम् । नापि द्वितीयः, न हि अन्यकर्मफलमन्यो भुञ्जीत । अकारणं तु तन्न भवितुमर्हति । किमत्र कारणम् ? ईदृशं प्राणिजगतो बहुबहुविधवैचित्र्यं दृश्यमानं निहतुकमनियामकं वा तु कथं स्यात् ? किञ्चित् मूलप्रयोजकतत्त्वं तु तत्पृष्ठभूमाववश्यं स्यात् । ईगविचारसरणिमाश्रित्य बहुश्रुतमेधाविनोऽनुमिमते पूर्वजन्मानुसंहित-कर्मसत्ताम् । समर्थितायां च तस्यां तदावृतमात्मतत्त्वं सिद्धमेव । आत्मा हि सुखदुःखदकर्मपुजेन अनादिसमभिसम्बद्धोऽस्ति । तन्निन्नमेव च तस्य [आत्मनो] भवभ्रमणं नानाविधदशापरिवर्तनचक्र वा। इत्थं कर्मण्यात्मनि चोपपद्यमाने परलोक ( पुनर्जन्म )सिद्धान्तः स्वतस्तत्संयुक्त एव समुपतिष्ठते । प्राणिभिः क्रियमाणाः सदसत्यः क्रिया नहि निष्फला भवितुमर्हन्ति । यद्यपीह जन्मनि दृश्यन्ते काश्चिदफलेग्रहयस्ताः, तथापि जन्मान्तरे ताः (स्वस्थापितसंस्कारेण) स्वफलमुपनयेरन् । प्राणिनां स्वक्रियोत्तरदायित्वत एव कर्मणस्तत्सम्बद्धात्मनः, परलोकस्य च सिद्धान्तः समर्थितो भवति । यद्विधानि हि सदसन्ति कार्याणि प्राणी करोति तदनुरूपं फलं तदनुरूपफलानुसारिणी वा पुनर्जन्मगतिमवाप्नोति । यथा भोजन-पानं शरीरान्तर्गत्वा स्वोचितपरिणाममुपजनयति, तथा क्षणिका अपि क्रियाः स्वसंस्कारमादधते [जीवे ]। आधाय चोपरमन्ति । एष संस्कारोऽथवा वासना एव 'कर्म'। तच्चैकविभिन्नप्रकारकपरमाणुद्रव्यसंघातात्मकमेके समामनन्ति महर्षयः । एवंविधानि नवनवानि कर्माणि आत्मक्रियावशादात्मना संयुज्यन्ते, पुराणानि च स्वावधिसमाप्तौ विशीर्यन्ते । सदसत्कार्यतो बद्धानि सदसन्ति कर्माणि परलोकपर्यन्तम् , अनेक
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com