________________
जन्मपर्यन्तमपि वात्मनि फलानुभावनमन्तरेण'सत्ता' रूपेणावतिष्ठन्ते; फलविपाकोदयसमये चोदित्य मिष्टानि कटूनि वा स्वफलानि जीवमनुभावयन्ति । फलविपाकभोगावधिं यावत् तानि फलानि जीवोऽनुभवति । भुक्तानि च तानि कर्माणि जीवाद् विघटन्ते ।
एतादृशप्रमाणावष्टम्भेन तथा 'सुख्यहम् ', 'दुःख्यहम् ' इत्याद्याकारकेण-नहि शरीरे, न चेन्द्रियेषु, किन्त्वन्तरात्मनि स्पष्टमनुभूयमानेन–प्रत्यक्षरूपेण संवेदनेनापि देहेन्द्रियादिविभिन्नं स्वतन्त्रमात्मतत्त्वमुपपद्यमानमवसीयते । जीवभेदाः। ___ जीवा द्विधा-संसारिणो मुक्ताश्च । संसारे-भवे [भवचक्रे ] भ्रमणकर्तारः संसारिण उच्यन्ते । 'संसार' शब्दः 'सम् '-. पूर्वक 'स्' धातुतो निष्पन्नः। 'सृ' धातोरों गमनं-भ्रमणम् । 'सम्' उपसर्गस्तमेवार्थ पुष्णाति । इत्थं संसारस्यार्थों निष्पन्नो, भ्रमणम् । चतुरशीतौ लक्षेषु योनीनाम् , चतसृषु वा गतिषु [ मनुष्यतिर्यक्-स्वर्ग-नरकगतिषु ] परिभ्रमणं संसारः, परिभ्रमणकर्तारश्च संसारिणोऽभिधीयन्ते। प्रकारान्तरेण 'संसार' शब्दस्यार्थों भ्रमणभूमयो योनयो गतयो वाऽपि भवन्ति । 'संसार' शब्देन शरीरमपि गृह्यते । एवंरीत्या संसारमास्थिताः प्राणिनः संसारिण उच्यन्ते । 'संसार' शब्दस्य मूलभूतोऽर्थ आत्मनः कर्मबद्धावस्था। तदेव च संसारिजीवत्य लक्षणम् ।
* आचार्यहरिभद्रेण शास्त्रवार्तासमुच्चये चतुर्थस्तबके बुद्धोद्गाररूपेणोपन्यस्तोऽयं श्लोकः"इत एकनवते कल्पे शक्त्या में पुरुषो हतः।
तेन कर्मविपाकेन पादे विद्धोऽस्मि भिक्षयः ! ॥१२॥" Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com