________________
संसारिजीवानां भिन्नभिन्नरीत्या अनेकविधा भेदा निर्दिश्यन्ते । परन्तु मुख्यतया सूक्ष्माः स्थूलाश्चेति ते द्विधा । सूक्ष्माः पृथ्वीजल-तेजो वायु-वनस्पतिकायाः पञ्चधा । ते 'स्थावरा' अप्युच्यन्ते । ते स्पर्शनलक्षणैकेन्द्रियाः सन्त एकेन्द्रियाः। ते अदृश्या दृश्याश्चेति द्वेधा । अस्मत्करणागम्यैरत्यन्तसूक्ष्मैरदृश्यैस्तैः समग्रलोको घन-सान्द्रं संव्याप्तो वर्तते । दृश्याः पृथ्वी-जल-तेजो-वायु-वनस्पतिकायास्तु प्रत्यक्षमुपलभ्यन्ते, उपयुज्यन्ते, उपभुज्यन्ते च । घर्षणच्छेदनादिप्रहारमप्राप्ता मृत्प्रस्तरादिः पृथ्वी येषांजीवानां शरीरपिण्डस्ते दृश्यपृथ्वीकायाः । अनलाद्याघातमनुपगता वापी-कूपा-ऽऽपगा-तडागाद्यापो येषां जीवानां कायपिण्डस्ते दृश्यजलकायाः । दीप-दहन-विद्युदादि तेजो येषां जीवानां पुद्गलपिण्डस्ते दृश्यतेजस्कायाः । अनुभूयमानो वायुयॆषां जीवानां देहपिण्डस्ते दृश्यवायुकायाः। वृक्ष-शाखा-प्रशाखा-पत्रपल्लव-पुष्प-फल-कन्दादिवनस्पतयो येषां जीवानां वपुष्पिण्डस्ते दृश्यवनस्पतिकायाः । *
उक्तसचेतनपृथ्वी यदा छेदन-भेदनाद्याघाततस्तद्गतजीवास्ततच्यवन्ते, तदा अचेतना भवति । एवमाप उष्णीकरणेन, शर्करादिमिश्रीक्रियया वा अचेतना भवन्ति । वनस्पतयोऽप्येतया रीत्या अचेतनीभवन्ति ।
त्वग-जिह्ये द्वे इन्द्रिये दधतो द्वीन्द्रियाः । ते कृमि-शङ्ककपर्द
___ * वनस्पतिषु सचेतनत्वं विज्ञानविशारदश्रीजगदीशचन्द्रवसुमहाशयेन विज्ञानप्रयोगतः प्रमाणितमस्ति । समग्राकाशोदरं सूक्ष्मजीवर्घन-खचितमस्तीत्याधुनिकवैज्ञानिकमतम् । वैज्ञानिकान्वेषणानुसारेण “ थेक्सस् " नामा जन्तुरियल्लघुरस्ति यत् ते जन्तव एकसूच्यग्रकोटावेकलक्षमप्यनाबाधमवतिष्ठेरन् ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com