Book Title: Vitrag Stotram
Author(s): Hemchandracharya, Chandraprabhsagar
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 262
________________ अष्टादशः प्रकाशः ] २२३ हितैषिणे स्वामिने नाम इति कोमलामन्त्रणे परं केवलं मृद्वेव वादेन न विज्ञप्यम्, किन्तु किश्चन कियत्कठोरं कठिनमपि स्वचित्तेऽज्ञानेनाप्रतिभासमानं स्वान्तशुद्धये संशयापनोदाय ज्ञाप्यते तत्क्षणम् ।। १॥ वि० हे भगवन् ! एवंविधाय स्वामिने परं केवलं मृदु सुललितमेव न विज्ञप्यम् , किन्त्वन्तरान्तरा किञ्चन स्वल्पमात्रं कठोरं परुषप्रायमपि। किं विशिष्टाय स्वामिने ?, विशेषज्ञाय वक्तुरभिप्रायविशेषविदुषे । अयमभिसन्धिः । यः किलोत्तानमतित्वेन यथाश्रुतयथादृष्टार्थमात्रग्राही प्रभुस्तं प्रति तन्मनोरतये सुकुमारमेव वाच्यम् , यस्तु देशकालप्रस्तावौचित्यपुरुषतदाशयविशेष विद्वांस्तं प्रति यथार्थभाषिभिर्भूत्यैरनुकूलमितरच्चादुष्टभावैविज्ञप्यम् , तद्भावज्ञेन स्वामिनापि तदवधार्यमेव, यतः " स किंसखा साधु न शास्ति योऽधिपं हितान्न यः संशृणुते स किंप्रभुः" किमर्थमित्याह-स्वान्तशुद्धये स्वमनःकुविकल्पकल्पनापोहाय ॥ १ ॥ कठोरोक्तिमेव व्यनक्ति-'न पक्षी त्यादितस्तदेवम्' इति पञ्चमश्लोके सम्बन्धः । हे भगवन् ! त्वं परीक्षकैः कथं देवत्वेन प्रतिष्ठाप्यः ?, यतः सर्वदेवेभ्यो विलक्षणः । कथम् ?, एवमुच्यमानप्रकारेण, तदेव दर्शयतिन पक्षिपशुसिंहादिवाहनासीनविग्रहः। न नेत्रगात्रवक्त्रादिविकारविकृताकृतिः ॥२॥ हे स्वामिन् ! लौकिक देवनी जेम आपनुं शरीर Jain Education International For Private & Personal Use Only ___www.jainelibrary.org

Loading...

Page Navigation
1 ... 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296