________________
अष्टादशः प्रकाशः ]
२२३ हितैषिणे स्वामिने नाम इति कोमलामन्त्रणे परं केवलं मृद्वेव वादेन न विज्ञप्यम्, किन्तु किश्चन कियत्कठोरं कठिनमपि स्वचित्तेऽज्ञानेनाप्रतिभासमानं स्वान्तशुद्धये संशयापनोदाय ज्ञाप्यते तत्क्षणम् ।। १॥
वि० हे भगवन् ! एवंविधाय स्वामिने परं केवलं मृदु सुललितमेव न विज्ञप्यम् , किन्त्वन्तरान्तरा किञ्चन स्वल्पमात्रं कठोरं परुषप्रायमपि। किं विशिष्टाय स्वामिने ?, विशेषज्ञाय वक्तुरभिप्रायविशेषविदुषे । अयमभिसन्धिः । यः किलोत्तानमतित्वेन यथाश्रुतयथादृष्टार्थमात्रग्राही प्रभुस्तं प्रति तन्मनोरतये सुकुमारमेव वाच्यम् , यस्तु देशकालप्रस्तावौचित्यपुरुषतदाशयविशेष विद्वांस्तं प्रति यथार्थभाषिभिर्भूत्यैरनुकूलमितरच्चादुष्टभावैविज्ञप्यम् , तद्भावज्ञेन स्वामिनापि तदवधार्यमेव, यतः " स किंसखा साधु न शास्ति योऽधिपं हितान्न यः संशृणुते स किंप्रभुः" किमर्थमित्याह-स्वान्तशुद्धये स्वमनःकुविकल्पकल्पनापोहाय ॥ १ ॥
कठोरोक्तिमेव व्यनक्ति-'न पक्षी त्यादितस्तदेवम्' इति पञ्चमश्लोके सम्बन्धः । हे भगवन् ! त्वं परीक्षकैः कथं देवत्वेन प्रतिष्ठाप्यः ?, यतः सर्वदेवेभ्यो विलक्षणः । कथम् ?, एवमुच्यमानप्रकारेण, तदेव दर्शयतिन पक्षिपशुसिंहादिवाहनासीनविग्रहः। न नेत्रगात्रवक्त्रादिविकारविकृताकृतिः ॥२॥
हे स्वामिन् ! लौकिक देवनी जेम आपनुं शरीर
Jain Education International
For Private & Personal Use Only
___www.jainelibrary.org