________________
२२४
[ श्रीवीतरागस्तोत्रे
हंस गरुडादि पक्षी, छाग वृषभादि पशु अने सिंह व्याघ्रादि जानवरोरूपी वाहन उपर आरूढ थयेलं नथी; तेमज आपनी आकृति पण ते देवोनी जेम नेत्र - लोचन, गात्र - शरीर अने वक्त्र - मुखादिना विकारोवडे विकृत थयेली नथी. (२)
अथ पञ्चभिः श्लोकैः सम्बन्धः ।
अव० न पक्षि० - हे वीतराग ! पक्षिणो हंसगरुडादयः पशवोऽजवृषादयः, सिंहा मृगेन्द्रास्तदादीनि यानि वाहनानि तेष्वासीनोऽधिरूढो विग्रहः कायो यस्य स एवंविधस्त्वं नासि । नयनवदनशरीराणां ये विकारा रागद्वेषनिष्पाद्यास्तैः विकृता विरुद्धावस्थां प्रापिता आकृतिः - संस्थानं यस्य स एवंविधोऽपि त्वं नासि हरिहरादिवत् ॥ २ ॥
वि० - ये किलास्मिन् लोके अस्माभिर्देवा ददृशिरे ते पक्षिप्रमुख वाहनासीनविग्रहाः विहङ्गप्रभृतियान विन्यस्तवपुषः । तथाहिब्रह्मविष्णुस्कन्दा यथाक्रमं हंसगरुडमयूरगामित्वेन पक्षिवाहनाः, तथा ईश्वरवैश्वानरमारुता यथाक्रमं वृषमेषमृगगामित्वेन पशुवाहनाः, भवानी च सिंहवाहना, आदिशब्दान्नरवाहनधनवाहनादित्रिदशपरिग्रहः । त्वं तु पक्षिप्रभृतिके नैकस्मिन्नपि वाहने विन्य स्तदेहस्तत एवेतर देवेभ्यो विलक्षणः । तथा - देवा हि नेत्रवक्त्रगात्रादिविकृतिभृत एवास्माभिरुपलभ्यन्ते, यथा- त्रिनयनः - शम्भुः चतुर्वक्त्रः - स्वयम्भूः, षण्मुखः - महासेनः, चतुर्भुजः - विष्णुः, गजा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org