Book Title: Vitrag Stotram
Author(s): Hemchandracharya, Chandraprabhsagar
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 277
________________ २३८ [ श्रीवीतरागस्तोत्रे स्परं सुमेरुसर्षपयोरिव सुदूरमन्तरम् । उक्तं च "कंचणमणिसोवाणं थंभ सहस्सूसियं सुवण्णतलम् । जो कारिज्ज जिणहरं तओवि तवसंजमो अहिओ "त्ति । सुपर्यापीति तु पाठे आज्ञापालनं तावदुक्तयुक्तयैव प्रकृष्टतमम् परं सपर्यापि तदधिकारिणामाज्ञापालनरूपत्वेन परम्परया मुक्तिफलत्वेन च वरैव । किञ्चेयं भगवदाज्ञा आराद्धा त्रिकरणशुद्ध्या सम्यगाराधिता शिवाय - महोदयाय, विराद्धा अज्ञानप्रममादादिभिरवधीरिता भवाय - संसाराय जायते, अतः क इव सहृदय स्तदाराधनेऽवधीरणां विदध्यादिति ॥ ४ ॥ " अथ केयमाज्ञा नाम उच्यते- आकालमियमाज्ञा ते, हेयोपादेयगोचरा । आश्रवः सर्वथा हेय, उपादेयश्च संवरः ॥ ५॥ 1 आपनी आ आज्ञा सदा काळ हेयोपादेयने गोचर विषय करनारी छे। अने ते ए छे के आश्रव ए सर्व प्रकारे हेय - त्याग करवालायक छे अने संवर ए सर्व प्रकारे उपादेय = अंगीकार करवालायक छे. (५) अव० आका०-हे वीतराग ! ते तवाकालमासंसारमियमाज्ञा शिक्षास्ति । कथम्भूता १, हेयो० हेयं त्याज्यमुपादेयंग्राह्यं ते एव द्वे गोचरो विषयो यस्याः सा । तामेव दर्शयतिआश्रवः० आश्रवति आत्मनि जनेन पापमित्याश्रवः कषायविषयप्रमादादिः, स च हेयः । संवरणं सावद्यव्यापारेभ्यो निवर्त्तनं Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296