Book Title: Vitrag Stotram
Author(s): Hemchandracharya, Chandraprabhsagar
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 285
________________ २४६ [ श्रीवीतरागस्तोत्रे मम त्वदर्शनोद्भूताश्चिरं रोमाञ्चकण्टकाः। तुदन्तां चिरकालोत्थामसद्दर्शनवासनाम् ॥४॥ हे निर्ममशिरोमणि ! आपना दर्शनथी मने चिरकाल सुधी उत्पन्न थयेला रोमांचरुपी कंटको दीर्घकालथी उत्पन्न धयेली कुशासननी दुर्वासनानो अत्यंत नाश करो. (४) अव० मम०-हे वीतराग! मम त्वदर्शनप्रसवोद्भवा रोमाञ्चकण्टका हर्षोत्कर्षेण चिरं स्थिरा इति गम्यम् । चिर० अनन्तभवभ्रमणोपचितां कुशासनदुर्वासनां तुदन्तां-व्यथोत्पादनेन निर्वासयन्ताम् । चिरोपचितो रोगश्चिरौषधसेवनेनैवविनश्यतीति स्थितिः ।। ४ ।। हे निर्ममशिरोमणे ! मम त्वत्संबन्धि यद्दर्शनममन्दानन्दनिरुपन्दाक्षिनिरीक्षणं तस्मादुद्भूताः संघटिता ये रोमाञ्चकण्टकाः पुलककोरकोद्भेदास्ते चिरकालोत्थामनादिभवभ्रमणोपचितामसद्दर्शनानामसर्वज्ञोपज्ञकुशासनानां दुर्वासनां चिरमत्यन्तं तुदन्तां-व्यथोत्पादनेन निर्वासयन्ताम् । समुचितं च कण्टकैर्व्यथनं व्यथितस्य च बहिनिर्याणमिति ॥ ४ ॥ अपरं च १ 'प्रमदो' इति प्रत्यन्तरे । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 283 284 285 286 287 288 289 290 291 292 293 294 295 296