________________
२४६
[ श्रीवीतरागस्तोत्रे मम त्वदर्शनोद्भूताश्चिरं रोमाञ्चकण्टकाः। तुदन्तां चिरकालोत्थामसद्दर्शनवासनाम् ॥४॥
हे निर्ममशिरोमणि ! आपना दर्शनथी मने चिरकाल सुधी उत्पन्न थयेला रोमांचरुपी कंटको दीर्घकालथी उत्पन्न धयेली कुशासननी दुर्वासनानो अत्यंत नाश करो. (४)
अव० मम०-हे वीतराग! मम त्वदर्शनप्रसवोद्भवा रोमाञ्चकण्टका हर्षोत्कर्षेण चिरं स्थिरा इति गम्यम् । चिर० अनन्तभवभ्रमणोपचितां कुशासनदुर्वासनां तुदन्तां-व्यथोत्पादनेन निर्वासयन्ताम् । चिरोपचितो रोगश्चिरौषधसेवनेनैवविनश्यतीति स्थितिः ।। ४ ।।
हे निर्ममशिरोमणे ! मम त्वत्संबन्धि यद्दर्शनममन्दानन्दनिरुपन्दाक्षिनिरीक्षणं तस्मादुद्भूताः संघटिता ये रोमाञ्चकण्टकाः पुलककोरकोद्भेदास्ते चिरकालोत्थामनादिभवभ्रमणोपचितामसद्दर्शनानामसर्वज्ञोपज्ञकुशासनानां दुर्वासनां चिरमत्यन्तं तुदन्तां-व्यथोत्पादनेन निर्वासयन्ताम् । समुचितं च कण्टकैर्व्यथनं व्यथितस्य च बहिनिर्याणमिति ॥ ४ ॥
अपरं च
१ 'प्रमदो' इति प्रत्यन्तरे ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org