________________
विंशतिः प्रकाशः ।
२४५ हे प्रभु ! उपासना माटे अयोग्य एवा हरिहरादिने प्रणाम करवावाळा अने त्रण जगतने सेव्य एवा आपनी उपासनावडे वंचित रहेवाथी करुणास्पद बनेला, मारा आ ललाटने आपनी आगळ आळोटाववाथी-नमाववाथी तेना उपर पडेली क्षतनी श्रेणिज प्रायश्चित्तरूप थाओ. (३)
अव० त्वत्पु०-हे वीतराग ! मम ललाटस्य तपस्विनः पूर्वं त्वत्प्रणामवञ्चितत्वेन कृपास्पदस्य, कृतोऽसेव्यानां प्रणामो येन स तस्य तवाग्रे नमनैः किणाव लिश्चिह्नपतिः प्रायश्चित्तं निष्पापहेतुर्भूयाद्भवतु ॥३॥
वि०-हे परमेष्ठिपुरस्सर ! त्वत्पुरस्तव पुरो भागे, लुठनैभक्त्यतिशयादसकृदवनीतलतालनैर्मद्भालस्य मत्संबन्धिनो ललाटपट्टस्य तपस्विनः पूर्वं त्वत्प्रणामवञ्चितत्वेन कृपास्पदस्य, किणावलिः क्षितिपीठघट्टनोद्भता क्षतततिः प्रायश्चित्तमघमर्षणं भूयात् । ननु कस्य पापस्य प्रायश्चित्तमिदमित्याह-कृतासेव्यप्रणामस्य, किं विशिष्टस्य मद्भालस्य ? कृतो निर्वर्तितोऽसेव्यानां भवाभिनन्दित्वेनोपासनानर्हाणां प्रणामः प्रणतिर्येन स तथा तस्य, यश्वापराध्यति स ध्रुवमनुभवत्येवापराधफलमिति ॥३॥
अन्यच्च
१ 'दूतम्' इति प्रत्यन्तरे ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org