________________
२४४
[ श्रीवीतरागस्तोत्रे मदृशौ त्वन्मुखासक्ते, हर्षबाष्पजलोर्मिभिः । अप्रेक्ष्यप्रेक्षणोद्भूतं, क्षणात्क्षालयतां मलम् ॥२॥
आपना मुखमां आसक्त थयेलां मारा नेत्रो पूर्वे अप्रेक्ष्य वस्तुओने जोवाथी उत्पन्न थयेला पापमलने क्षणवारमा हर्षाश्रुना जलनी ऊर्मिओ-तरंगोवडे धोइ नांखो. (२)
अव० मह०-हे वीतराग मम नयने त्वद्वदननिरीक्षके, अप्रेक्ष्याणि प्रेक्षितुमयोग्यानि परस्त्रीकुदेवादीनि तेषां प्रेक्षणेन निभालनेन जातं मलं-पापं हर्षाश्रुजलकल्लोलैः क्षणारक्षालयतामपनयताम् ॥ २॥
वि०-हे विश्वकदृश्य ! मददृशौ मत्संबन्धिनी लोचने, त्वन्मुखासक्ते त्वदानननलिननिलीने, हर्षबाष्पजलोमिभिरानन्दाश्रुवारि. वीचिभिरप्रेक्ष्याणां रागद्वेषमोहादिहेतुत्वेन विलोकयितुमनुचितानां यदकस्मादाकुट्या वा प्रेक्षणमवलोकनं तस्मादुद्भूतमुत्पन्नं यन्मलं कल्मषं तत् क्षणादक्षेपात् क्षालयतां-विशोधयताम् । समुचितं च जलोमिभिर्मलप्रक्षालनं भगवद्वदनावलोकनाच चिरसंचितपापपटलविगलनमिति ॥ २॥
किञ्चत्वत्पुरो लुठनैर्भूयान्मद्भालस्य तपस्विनः । कृतासेव्यप्रणामस्य, प्रायश्चित्तं किणावलिः॥३॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org