________________
विंशतिः प्रकाशः ]
२४३ आपना पादपीठमां मस्तकने नमावतां मारा ललाटने विषे पुण्यना परमाणुना कणीया समान आपना चरणनी रज चिरंकाल रहो. (१) विविधैः प्रकारैः प्रभु प्रसाद्य मनोभिप्रेतं प्रार्थयन्ति
अव० पाद०-हे वीतराग! पदासनलुठन्मस्तके मयि 'गङ्गायां घोषः' इति वल्लक्षणया ललाटे तव पादरजश्विरमा. संसारं निविशतां-स्थिरीभवतु । रजः कथम्भूतम् ?, पुण्यपरमाणुक० पुण्यस्य ये परमाणवः पुद्गलास्तेषां ये कणास्तदुपर्म तत्सदृशम् । कोऽर्थः १, येषां भक्त्या भूलग्ने शिरसि प्रभुपादग्ररजोविश्रान्तं तैः पुण्यं प्राप्तमेव ॥ १ ॥
वि०-हे विश्ववन्ध ! तव पादारविन्दरजो मयि विशेषणसामर्थ्यान्मम मूर्ध्नि चिरमासंसारं निवसतां-निलीयताम् , किं वि. शिष्टे ? पादपीठलठन्मूनि, प्रस्तावात्वत्संबन्धिनि पादपीठे चलन. नलिनसंस्पर्शपावने अंहिविष्टरे लुठद् भक्त्यतिशयेन विल्लन्मूर्धानं यस्य स तथा तस्मिन् , रजः किंविशिष्टं ?, पुण्यपरमाणुकणोपमम् , पौद्गलिकत्वात् कर्मणां पुण्यप्रकृतिबन्धहेतवो ये परमाणुकणास्तदुपमं तत्तुल्यम् । इदमुक्तं भवति-येषां हि भक्तिप्रणते शिरसि स्वामिनः पादरजो विश्रान्तं ते प्रायः पुण्यकर्मनिबन्धका एवेति ॥१॥
तथा--
१ 'पावनैरंह्रिविष्टरैः' इति प्रत्यन्तरे । २ 'विलुठन्' इति प्रत्यन्तरे।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org