SearchBrowseAboutContactDonate
Page Preview
Page 281
Loading...
Download File
Download File
Page Text
________________ २४२ [ श्रीवीतरागस्तोत्रे ए कारणे आपनी आज्ञानी आराधना करवी एज एक मुक्तिनो श्रेष्ठ उपाय छे. (८) अव० हित्वा०—हे वीतराग! प्रसादनायै प्रसन्नता. विधये यदैन्यं चाटु तद् हित्वा त्यक्त्वा एकयैव एकाकिन्यैव त्वदाज्ञया जन्मिनो जीवाः कर्मपञ्जराकर्मरूपकाष्ठपञ्जरात् सर्वथैव निःशेषतया विमुच्यन्ते मुक्ता भवन्तीत्यर्थः।।८॥ इत्येकोनविंशतितमप्रकाशस्यावचूर्णिः । वि०-हे विश्वेश ! परैरपरमार्थवेदिभिः किलेदमुदीर्यते यत्-प्रसन्नादेव प्रभोः फलं सुलभम् , तच्च चिन्तामण्यादिदृष्टान्तेन पुरैव विघटितम् , तस्मादिदं परोपन्यस्तं प्रसादनालक्षणं दैन्यं-दीनत्वम् , हित्वा-विहाय, एकया निश्छद्मसमाराधितया त्वदाज्ञया तव शासनेन सर्वथा अपुनर्बन्धाय जन्मिनो भव्याङ्गभाजः कर्मपञ्जराद्विमुच्यन्ते सकलकर्मबन्धनविध्वंसेन सदानन्दं परमधिश्रयन्ति । तस्मात्पर्याप्तं त्वदाज्ञाराधनादपरैः परमपदोपायपरिशीलनैरिति ॥८॥ इति श्रीवीतरागस्तोत्रे एकोनविंशस्याज्ञास्तवस्य पदयोजना । ___ एवं स्तुतिकृद्भगवति वीतरागे विविधभणितभङ्गीतरमिता स्तुतिमभिधाय साम्प्रतं तदुपसंहाराय समाप्तिमङ्गलाय चाशीःस्तवं बिभणिषुः साक्षात्पुरः स्फुरन्तमिव स्वामिनमुद्दिश्य भक्त्यतिशयेनाहपादपीठलुठन्मूर्ध्नि, मयि पादरजस्तव । चिरं निवसतां पुण्यपरमाणुकणोपमम् ॥ १॥ Jain Education International For Private & Personal Use Only ___www.jainelibrary.org
SR No.003020
Book TitleVitrag Stotram
Original Sutra AuthorHemchandracharya
AuthorChandraprabhsagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1949
Total Pages296
LanguageSanskrit
ClassificationBook_Devnagari & Worship
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy