________________
विंशतिः प्रकाशः]
२४७ कद्वक्त्रकान्तिज्योत्स्नासु, निपीतासु सुधास्विव । मदीयैर्लोचनाम्भोजैः, प्राप्यतां निर्निमेषता ॥५॥
हे नाथ! अमृत समान आपना मुखनी कान्तिरूपी चंद्र ज्योत्स्नान पान करवाथी मारा नेत्ररूपी कमळो निनिमेषताने पामो. (५)
अव. त्वद्वक्त्र०-हे वीतराग ! तव वदनेन्दोः कान्तिर्लवणिमा तस्य ज्योत्स्नासु स्पष्टतासु सुधास्विवामृते. ष्विव निपीतास्विति वर्तमानकाले क्तः' निपीयमानासु मत्सम्बन्धिभिनयननलिनैनिर्निमेषता निष्पन्दता निश्चलता प्राप्यतामनुभूयताम् । योग्या ह्यमृतपायिनां निर्निमेषताऽमरत्वमिति । एवं त्वल्लावण्यामृतपायिनोऽन्तरङ्गयोनिशोरप्रतिपातित्वं भवत्वित्यप्युक्तिलेशः ॥ ५॥ ___ हे जगल्लोचनलोभनवदन ! त्वत्सम्बन्धि यद्वक्त्रं मुखपीयूषद्युतिस्तस्य कान्तिर्लवणिमजोत्पीलच्छविः सैव ज्योत्स्नाश्चन्द्रिकास्तासु नितरां पीतासु तृप्तिपर्यन्तमास्वादितासु, कास्विव ?, सुधास्विव पीयूषपूरेष्विव । मदीयैर्मत्सम्बन्धिभिर्लोचनाम्भोजर्नयन लिनैर्निनिमेषता निष्पन्दता प्राप्यतामनुभूयताम् । योग्या च ज्योत्स्नापानादम्भोजानां प्रस्तावादिन्दुविकासिनां निष्पन्दता, पीयूषपायिनां च निर्निमेषता। अनिमेषत्वममरत्वमिति यावत् ॥ ५ ॥
१ 'नीलोत्पलैः' इति प्रत्यन्तरे ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org