________________
२४८
[ श्रीवीतरागस्तोत्रे
. तथात्वदास्यलासिनी नेत्रे, त्वदुपास्तिकरौ करौ। त्वद्गुणश्रोतृणी श्रोत्रे, भूयास्तां सर्वदा मम ॥६॥ __हे नाथ ! मारां बे नेत्रो आपना मुखने जोवामां सदा लालसावाळां बनो. मारां वे हाथ आपनी पूजा करवामां सर्वदा तत्पर बनो, अने मारां बे कान आपना गुणोनुं श्रवण करवामां हमेशां उद्युक्त रहो. मळेली कायाने सफळ करवानुं अमोघ साधन आ श्लोकमां गुरुदेव दर्शावे छे. (६)
अव त्वदा०-हे वीतराग ! मम नेत्रे त्वन्मुखविलोकनसुखलालसे भूयास्ताम् , पाणी त्वत्पूजापरौ, त्वद्गुणश्रवणपरायणौ कौँ भूयास्तामिति क्रिया ! सर्वदेति क्रियाविशेषणम् , ममेति सर्वत्र योज्यानि ॥६॥
हे विश्वैकमित्र ! मम संबन्धिनी नेत्रे त्वदास्यलासिनी त्वन्मुखसुखवासदुर्ललिते भूयास्ताम् । तथा मम करौ पाणी अपि त्वदुपास्तिकरौ त्वच्चरणसरोजसपर्यापर्यवसितौ स्याताम् । तथा मम श्रोत्रे अपि त्वद्गुणश्रोतृणी त्वदीयाभिरामगुणग्रामश्रवणसावधाने भूयास्ताम् । कथं ! सर्वदा सर्वकालम् , यतस्त्वन्मुखमेव समस्तवीक्षणीयोपनिषद्भूतम्, त्वमेव च सर्वोपास्यरहस्यसीमा, त्वद्गुणाः एव सर्वश्रोतव्यसर्वस्वप्राया नान्यदिति भावः ॥ ६ ॥
Jain Education International
For Private & Personal Use Only
___www.jainelibrary.org