________________
विंशतिः प्रकाशः ]
किश्च -
कुण्ठापि यदि सोत्कण्ठा, त्वद्गुणग्रहणं प्रति । ममैषा भारती तर्हि, स्वस्त्येतस्यै किमन्यया ? ॥७॥
हे प्रभु ! कुंठित - अतीक्ष्ण एवी पण मारी आ वाणी आपना गुणोनुं ग्रहण करवा प्रत्ये उत्कंठित होय, तो तेनुं कल्याण थाओ, ते सिवाय अन्य वाणीवडे शुं ? ( ७ )
अव० कुण्ठा०-हे वीतराग । मम एषा भारती वाक् कुण्ठापि सर्वत्र स्खलन्त्यपि यदि त्वद्गुणवर्णनं प्रति सोत्कण्ठा स्पृहयालुरस्ति तर्ह्येतस्यै भारत्यै स्वस्ति कल्याणमस्तु | अन्यया त्वद्गुणपराङ्मुखया किं १, न किञ्चिदित्यर्थः ॥ ७ ॥
२४९
वि० - हे भुवनमहनीय ! मम संबन्धिनी एषा स्तुतौ व्याप्रियमाणा भारती वाणी चतुर्दशपूर्वधरदशपूर्वधरादिपूर्व पुरुषसिंहभारत्यपेक्षया सूक्ष्मार्थसार्थ भेदनाक्षमत्वेन च कुण्ठाप्यतीक्ष्णापि यदि त्वद्गुणग्रहणं प्रति तव गुणोत्कीर्त्तनमनु सोत्कण्ठा सस्पृहा तर्हि तदा एवंविधायै कुण्ठायै अप्येतस्यै मम वाण्यै स्वस्ति कल्याणमस्तु, अन्यया एतद्व्यतिरिक्तया त्वद्गुणग्रहणपराङ्मुखयाऽकुण्ठयापि कुमतप्रवर्त्तनेन स्वपरयोरनर्थफलया भारत्या किं ?, न किञ्चित् उक्तस्वरूपया स्ववाचैव मे चरितार्थत्वात् ॥ ७ ॥
Jain Education International
For Private & Personal Use Only
"
www.jainelibrary.org