________________
२५०
[ श्रीवीतरागस्तोत्रे एवमुत्तरोत्तरभक्तिरागभावितः स्तुतिकृद् भगवति परमात्मनि सर्वात्मनैवात्मानमुपनिनीषुः स्तुतिशेषमाहतवप्रेष्योऽस्मि दासोऽस्मि,सेवकोऽस्म्यस्मि किङ्करः ओमिति प्रतिपद्यस्व, नाथ! नातः परं ब्रुवे ॥८॥
हे नाथ ! हुं आपनो प्रेष्य छु, दास छ, सेवक छु, अने किंकर छं; माटे ' आ मारो छे' ए प्रमाणे आप स्वीकार करो. आथी अधिक हंकाई कहेतो नथी. (८)
अव० तव०-स्वामिना स्वार्थसिद्धये यत्र तत्र प्रेष्यत इति प्रेष्यः, अहं तव प्रेष्योऽस्मि, दासः क्रयक्रीतस्त्रिशूलाद्य. ङ्कितोऽस्मि, सेवकः सम्यक्स्वामिसेवायां निपुणोऽस्मि, तथा किङ्करः समादिशत किङ्करोमीति वचश्चतुरोऽस्मि । एते हि स्वपरिचर्यानुसारेण फलमिच्छन्ति अतस्त्वमोमित्यक्षरमात्रमुदीर्य मदीयोऽयमिति मां प्रतिपद्यस्व स्वीकुरु, हे नाथ ! अतस्त्वद्वचनादपरं धनस्वर्णादि न बुवे-न याचे, अनेकार्थत्वाद्धातूनामित्यर्थः ।। ८॥
हे सर्वाद्भुतसनाथ ! नाथ ! अस्मि अहं तव संबन्धी प्रेष्यः, दासः, सेवकः, किङ्करश्चास्मि । तत्र प्रेष्यते प्रभुणा स्वार्थसिद्धये यत्र तत्रेति प्रेष्यः। दासंश्च क्रयक्रीतोऽङ्कितकादिः । सम्यक् स्वामिचित्तानुरूपसेवानिपुणः सेवकः । प्रतिक्षणं किं करोमीति मुखरमुखः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org