________________
विंशतिः प्रकाशः ]
किङ्करः । सोऽहमेवंविधस्तावत्तवास्म्येव । सेवकाश्च सेवानुरूपं फलमिच्छन्ति, तथापि त्वत्तस्त्रिभुवनलक्ष्मीविश्राणनस्थूललक्षादपि न किश्चिदहमधिकं प्रार्थयिष्ये केवलमोमित्यक्षरमात्रमुच्चार्य मदीयस्त्व. मिति मां प्रतिपद्यस्व, अतः परमेतदधिकं न किञ्चित् ब्रुवे विज्ञापयिष्यामि(विज्ञपयामि) । त्वदङ्गीकारमात्रेणैव कृतकृत्यत्वात् । अयमाशयः-किल न खलु त्वमात्मस्वीकारेणायोग्यमनुगृह्णासि, त्वदङ्गीकाराच्चावगतस्वयोग्यत्वस्य मम संमुखान्येव समग्राण्यपि श्रेयांसि, ततः किमधिकं प्रार्थ्यतामिति ॥ ८ ॥
अमी च वीतरागस्तवाः किल कलिकालसर्वज्ञप्रायैः श्रीहेमचन्द्रसूरिभिर्भगवति वीतरागे समुत्तरङ्गभक्तिरागसागरैः श्रीकुमारपालभूपालानुग्रहाय ग्रथिता इत्येतदेव व्यनक्तिश्रीहेमचन्द्रप्रभवाद्वीवीतरागस्तवादितः । कुमारपालभूपालः, प्राप्नोतु फलमीप्सितम् ॥९॥
श्री हेमचन्द्रसूरीश्वरे रचेला आ श्रीवीतरागस्तोत्रथी श्रीकुमारपाल-भूपाल मुक्ति-कर्मक्षय लक्षण अभीप्सित-फलने प्राप्त करो. (९) । अव० श्रीहेमचन्द्र०-अयं प्राग् व्याख्यात एवेति ।।९।।
इति विंशतितमप्रकाशस्यावचूर्णिः समाप्ता । वि०-श्रीहेमचन्द्राभिधानाचार्यप्रभवात्संदर्भितादितः पूर्वोदितस्वरूपाद्वीतरागस्तवात् कुमारपालभूपालः श्रीकुमारपालदेवाभिधान
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org