________________
[ श्रीवीतरागस्तोत्रे
धौलुक्यचक्रवर्त्ती ईप्सितं मनोऽभिलषितमैहिकामुष्मिकं फलं प्राप्नोतुलभताम् । एवं विधाच्च सद्भूतस्तुतिस्तोमजन्यागण्यपुण्यप्रभावादभिलषितसिद्धिः स्तोतुः श्रोतुश्च सुलभैवेति समञ्जसम् ॥ ९ ॥
इति श्रीवीतरागस्तोत्रे विंशतितमस्याशीः स्तवस्य पदयोजना |
२५२
अवचूर्णि विवरणकारस्यप्रशस्तिः ।
चान्द्रे कुलेऽस्मिन्नमलश्चरित्रैः प्रभुर्बभूवाभयदेवसूरिः । नवाङ्गवृत्तिच्छलतो यदीय
मद्यापि जागर्त्ति यशः शरीरम् ॥ १ ॥
तस्मान्मुनीन्दुर्जिनवल्लभोऽथ तथा प्रथामाप निजैर्गुणौघैः । विपश्चितां संयमिनां च वर्गे धुरीणता तस्य यथाऽधुनापि ॥ २ ॥ तेषामन्वयमण्डनं समभवत्संजीवनं दुःषमामूर्च्छालस्य मुनिव्रतस्य भवनं निःसीम पुण्यश्रियः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org