________________
प्रशस्तिः )
२५३ श्रीमन्तोऽभयदेवसूरिगुरवस्ते यद्वियुक्तैर्गुणैदृष्टुंतादृशमाश्रयान्तरमहो! दिक्चक्रमाक्रम्यते ॥३॥
यतिपतिरथ देवभद्रनामा समजनि तस्य पदावतंसदेश्यः । दधुरधरितभावरोगयोगा जगति रसायनतां यदीयवाचः ॥ ४ ॥ तदीयपट्टे प्रतिभासमुद्रः श्रीमान् प्रभानन्दमुनीश्वरोऽभूत् । स वीतरागस्तवनेष्वमीषु
विनिर्ममे दुर्गपदप्रकाशम् ॥ ५ ॥ एवं सपादशतयुतविंशतिशतपरिमितःप्रबंधोऽयम्। लिखितःप्रथमादर्श गणिना हर्षेन्दुना शमिना॥६॥
शिवमस्तु । इतिश्रीकलिकालसर्वज्ञश्रीहेमचन्द्रसूरिप्रणीताः श्रीदेवभद्रमुनीन्द्रशिष्यरत्नश्रीप्रमानन्दमुनीन्द्रोपज्ञदुर्गपदप्रकाशाख्य.
विवरणोपेताः विंशतिः स्तवाः ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org