Book Title: Vitrag Stotram
Author(s): Hemchandracharya, Chandraprabhsagar
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 292
________________ प्रशस्तिः ) २५३ श्रीमन्तोऽभयदेवसूरिगुरवस्ते यद्वियुक्तैर्गुणैदृष्टुंतादृशमाश्रयान्तरमहो! दिक्चक्रमाक्रम्यते ॥३॥ यतिपतिरथ देवभद्रनामा समजनि तस्य पदावतंसदेश्यः । दधुरधरितभावरोगयोगा जगति रसायनतां यदीयवाचः ॥ ४ ॥ तदीयपट्टे प्रतिभासमुद्रः श्रीमान् प्रभानन्दमुनीश्वरोऽभूत् । स वीतरागस्तवनेष्वमीषु विनिर्ममे दुर्गपदप्रकाशम् ॥ ५ ॥ एवं सपादशतयुतविंशतिशतपरिमितःप्रबंधोऽयम्। लिखितःप्रथमादर्श गणिना हर्षेन्दुना शमिना॥६॥ शिवमस्तु । इतिश्रीकलिकालसर्वज्ञश्रीहेमचन्द्रसूरिप्रणीताः श्रीदेवभद्रमुनीन्द्रशिष्यरत्नश्रीप्रमानन्दमुनीन्द्रोपज्ञदुर्गपदप्रकाशाख्य. विवरणोपेताः विंशतिः स्तवाः ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 290 291 292 293 294 295 296