Book Title: Visheshavashyak Bhashya Part 06 Author(s): Jinbhadragani Kshamashraman, Chaturvijay Publisher: Harakchand Bhurabhai Shah View full book textPage 3
________________ विशेषा वृहद्वत्तिा जीवमजीवं दाउं नोजीवं जाइओ पुणरजीवं । देइ चरिमम्मि जीवं न उ नोजीवं स जीवदलं ॥ २५०४ ॥ 'जीवं देहि' इति याचितः सुरो जीवं शुक-सारिकादिक दवा 'अजीवं देहि' इति याचितस्त्वजीवमुपलखण्डादिकं दत्त्वा कृतार्थो जायते । नोजी याचितः पुनरजीवमुपलखण्डादिकमेव ददाति, नोशब्दस्य सर्वनिषेधपरत्वात् । चरमे तु नोअजीवलक्षणे विकल्पे जीवमेव शुकादिकं ददाति, द्वयोर्नओः प्रकृतार्थगमकत्वात् , नोशब्दस्य च सर्वनिषेधकत्वादिति, न तु स कुत्रिकापणदेवो जीवं जीवदलं जीवखण्डरूपं क्वापि विकल्पे ददाति । इति जीवा-जीवलक्षणो द्वावेव राशी, न तु तृतीयः, असत्त्वात्, खरविषाणवदिति ॥२५०४॥ ततः किमभूत् ? इत्याह-- तो निग्गहिओ छलुओ गुरू वि सक्कारमुत्तमं पत्तो । धिद्धिक्कारोवहओ छलुओ वि सभाहिं निच्छुढो ॥२५०५॥ ___ ततो यदा कुत्रिकापणसुरेण जीवव्यतिरिक्तो नोजीवो न दत्तः, असत्त्वात् , तदा निगृहीतो निर्जितः षडुलूकः । गुरुरपि श्रीगुप्ताचार्यो नरनाथाल्लोकाच्च सत्कारमुत्तमं प्राप्तः । षडुलूकोऽपि गुरुपत्यनीकरवाजनप्रयुक्तधिकारोपहतो राजसभातो निष्कासित इति ॥ २५०५॥ ततः किम् ? इत्याहवाए पराजिओ सो निविसओ कारिओ नरिंदेण । घोसावियं च नयरे जयइ जिणो वडमाणो त्ति ॥२५०६॥ तेणाभिनिवेसाओ समइविगप्पियपयत्थमादाय । वइससियं पणीयं फाईकयमण्णमण्णेहिं ॥ २५०७ ॥ स रोहगुप्तो गुरुणा वादे पराजितः सन् नरपतिना निर्विषयः समाज्ञातः, पटहकेन च वाद्यमानेन घोषापितं समस्तनगरे 'जयति जिनः श्रीमान् वर्धमानः' इति । रोहगुप्तस्य च वादे निर्जितस्यापि प्रत्यनीकतोद्वेजितेन गुरुणा खेलमल्लकः शिरसि स्फोटितः। जीवमजीवं दवा नोजीवं याचितः पुनरजीवम् । ददाति चरमे जीवं न तु नोजीवं स जीवदलम् ॥ २५०४ ॥ २ ततो निगृहीतः पहलूको गुरुरपि सत्कारमुत्तमं प्राप्तः । धिधिक्कारोपहतः पडुलूकोऽपि सभातो निष्कासितः ॥ २५०५॥ ३ वादे पराजितः स निर्विषयः कारितो नरेन्द्रेण । घोषितं च नगरे जयति जिनो वर्धमान इति ॥ २५०६ ॥ तेनाभिनिवेशात् स्वमतिविकल्पितपदार्थमादाय । वैशेषिकं प्रणीतं स्फातीकृतमन्यान्यैः ॥ २५०७ ॥ १००१॥ Jan Education inte For Personal and Price Use OnlyPage Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 ... 202