Book Title: Sutrarth Muktavali Part 02
Author(s): Vijaylabdhisuri, Vikramsenvijay Gani
Publisher: Labdhibhuvan Jain Sahitya Sadan

View full book text
Previous | Next

Page 508
________________ सूत्रार्थमुक्तावलिः ५०२ ते गुणाः कथं सम्भवन्तीत्यत्र कारणभूतान् प्रशस्तयोगानाचष्टेआलोचननिरपलापदृढधर्मत्वादयः प्रशस्तयोगसङ्ग्रहाः ॥२९॥ आलोचनेति, योगा: मनोवाक्कायानां व्यापारास्ते प्रशस्ता ग्राह्याः तेषां शिष्याचार्यगतानां आलोचननिरपलापादिना प्रकारेण ये सङ्ग्रहास्ते द्वात्रिंशद्विधाः, तद्यथा - प्रशस्तमोक्षसाधनयोगसङ्ग्रहाय शिष्येणाचार्याय सम्यगालोचना दातव्येत्यालोचना, आचार्योऽपि मोक्षसाधकयोगसंग्रहायैव दत्तायामालोचनायां नान्यस्मै कथयेदिति निरपलाप:, तदर्थमेव द्रव्यादिभेदास्वापप्सु साधुना सुतरां दृढधर्मिणा भाव्यमिति दृढधर्मता, तदर्थमेव परसाहाय्यानपेक्षं तपो विधेयमित्यनिश्रितोपधानता, सूत्रार्थग्रहणरूपा प्रत्युपेक्षाद्यासेवनात्मिका च शिक्षाऽऽसेवितव्येति शिक्षा, निष्प्रतिकर्मशरीरेणासेवनीयेति निष्प्रतिकर्मता, यशः पूजाद्यर्थित्वेनाप्रकाशयद्भिस्तपः कार्यं यथाऽन्यो न जानाति तथा तपः कार्यमित्यर्थ इति अज्ञातता, अलोभेन यत्नः कार्य इत्यलोभता, परीषहादिजयः कार्य इति तितिक्षा, आर्जवं कर्त्तव्यमित्यार्जवम्, संयमवता भवितव्यमिति शुचित्वम्, सम्यग्दर्शश्शुद्धो भवेदिति सम्यग्दृष्टित्वम्, चेतसः स्वास्थ्यं कार्यमिति समाधिः, निर्माय आचारोपगतः स्यादित्याचारः, निर्मानो विनयोपगतो भवेदिति विनयित्वम्, धृतिप्रधाना मतिरदैन्यरूपा कार्येति धृतिमतित्वम्, संसाराद्भयं मोक्षाभिलाषो वा भवेदिति संवेगित्वम्, मायाशल्यं न कुर्यादित्यप्रणिधिः, सदनुष्ठानं कर्त्तव्यमिति सुविधिः, आश्रवनिरोधः कार्य इति संवरः, स्वकीयदोषस्य निरोधः कार्य इत्यात्तदोषोपसंहारः, समस्तविषयवैमुख्यं भावयेदिति सर्वकामविरक्तता, मूलगुणविषयमुत्तरगुणविषयञ्च प्रत्याख्यानं कार्यमिति प्रत्याख्याने, द्रव्यभावभेदभिन्नो व्युत्सर्गः कार्य इति व्युत्सर्गित्वम्, प्रमादवर्जनं कार्यमित्यप्रमादित्वम्, क्षणे क्षणे सामाचार्यनुष्ठानं कार्यमिति लवाल्लवः, ध्यानं कार्यमिति ध्यानसंवरयोगः, मारणान्तिकेऽपि वेदनोदये न क्षोभः कार्य इति उदितमारणान्तिकत्वम्, सङ्गानाञ्च ज्ञपरिज्ञाप्रत्याख्यानपरिज्ञाभेदभिन्ना परिज्ञाकर्त्तव्येति संगपरिज्ञा, प्रायश्चित्तकरणञ्च कार्यमिति प्रायश्चित्तकरणम्, मरणान्तकाले आराधना कार्येत्याराधना, एते प्रशस्तयोगसङ्ग्रहनिमित्तत्वात् योगसङ्ग्रहा इति ॥२९॥ તે સિદ્ધગુણો જીવને કેવી રીતે સંભવે એમાં કારણભૂત એવા પ્રશસ્ત (૩૨) યોર્ગોને હવે उहे छे. યોગ = મન વચન કાયાનો વ્યાપાર અને તે પ્રશસ્ત ગ્રહણ કરવા શિષ્ય અને આચાર્યગત એવા (પ્રશસ્ત મન વચન કાયાના વ્યાપારો) આલોચન, નિરપલાપ, વગેરે પ્રકારે જે યોગનો संग्रह छे ते (३२) प्रहारनो छे ते नीचे प्रमाणे छे.

Loading...

Page Navigation
1 ... 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586