Book Title: Smruti Sandarbh Part 04
Author(s): Maharshi
Publisher: Nag Publishers

View full book text
Previous | Next

Page 680
________________ प्रायश्चित्तवर्णनम् वर्जनीयाद्विजायते श्राद्धकर्मसु नित्यशः । दाराधीनाः क्रियाः सर्वा दाराः स्वर्गस्य साधनं ॥ ४ ॥ २४८६ इत्येतत्ब्रह्मणाप्रोक्त' काश्यपस्यानुशासनम् । सप्त पौनर्भवा कन्या वर्जनीया कुलाधमाः ॥ ५ ॥ वाचा दत्ता मनोदत्ता कृतमंगलकौतुका । उदकस्पर्शका या च या च पाणिग्रहीतिका ॥ ६ ॥ अग्न्युपायं गता या च पुनर्वाह्यस्य वादिका । इत्येताः कश्यपप्रोक्ता दहेयुः कुलमग्निवत् ॥ ७ ॥ प्ररोहत्यग्निमादाय पादपानां कुलंमहत् । न हि पुनर्भवादीनां कुलं तस्य प्ररोहति ॥ ८ ॥ पिता वा यदि वा भ्राता माता वा यदिवेतरः । नरश्च कृतपापानां गति यां याति तां श्रृणु ॥ ६ ॥ मनिवर्ती यथा श्येनो गच्छत्येव यमालयं । एवं च नरकं याति कन्या अमृतकारका ||१०|| पुनः सम्पद्यते नारी गतमात्मानमात्मनि । अस्थिमात्रं त्वचं भित्वा शुक्रं तेजोबलं तथा || ११|| शुद्धिं न ये प्रयच्छति दुहितरं लोभमोहिताः । तेषां तु नरके घोरे याति वै सप्तमं कुलम् ||१२|| गमनागमनायोगात् एवं शुक्र विधीयते । एवं ज्ञात्वा युक्तकन्यां विंदेत स तत्कुलात् ||१३||

Loading...

Page Navigation
1 ... 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697 698 699 700 701 702 703 704 705 706 707 708 709 710 711 712 713 714 715 716 717 718 719 720