Book Title: Smruti Sandarbh Part 04
Author(s): Maharshi
Publisher: Nag Publishers

View full book text
Previous | Next

Page 692
________________ श्राद्धवर्णनम् मंडलस्योत्तरे भागे कुर्यादाचमनं बुधः । उत्तरे जाह्नवीतोयं अन्यत्र रुधिरं भवेत् ॥ १०३॥ मण्डलात्पूर्वतो देवा पितृविप्रैस्तथोत्तरे | कर्ता कुर्वीत ईशाने श्राद्ध आचमनं स्मृतम् ||१०४ || हस्तप्रक्षालनादूर्ध्वं पाणिभ्यां पात्रधारणम् । संकल्पे दक्षिणे त्याज्यं भुक्त्वा वामं विमुत्सृजेत् ॥ १०५ ॥ ब्राह्मणानासनं वस्त्रं तिलमिश्रं तथैव च । पितृनानि (?) देवादि काष्ठासनानि वर्जयेत् ||१०६ || सव्यं तु देवमस्थानमर्चयेत्पश्चिमामुखम् । अपसव्यं पितृस्थानमर्चयेद्दक्षिणस्तथा ॥ १०७॥ श्राद्धरम्भेऽवसाने च पादशौचे तथार्चने । विकरे पिण्डदाने च षट्सु आचमनं स्मृतम् ||१०८|| स्वागते स्वस्तिवचने गोत्रशेषे प्रदक्षिणे । अर्घ्यं च दक्षिणादाने षट्सु सव्यं विधीयते ॥ १०६॥ प्रातःकाले शुचिः स्नात्वा पाकनिष्पतितो यदा । गृहन्तु पितृकार्याणि मुनीनां सर्वतोद्विजः ॥ ११०॥ अपुत्रा म्रियते भर्तुः गोत्रजानाननाशयत् । स्त्रीणां च कुरुते श्राद्धं पुत्राभावेति सर्वथा ॥ १११॥ स्त्रीणां कुरुते श्राद्धं गोत्रमुच्चारणं कथम् । अमुकगोत्राय भर्तुश्च पिताप्रपितामहाय च ॥ ११२।। उत्तरीयाभावे च वस्त्रं सव्यापसव्यकर्मणि । गोत्रनामस्वधाकारैः भतुः श्राद्धं तु कारयेत् ॥ ११३ ॥ २५०१

Loading...

Page Navigation
1 ... 690 691 692 693 694 695 696 697 698 699 700 701 702 703 704 705 706 707 708 709 710 711 712 713 714 715 716 717 718 719 720