________________
श्राद्धवर्णनम्
मंडलस्योत्तरे भागे कुर्यादाचमनं बुधः । उत्तरे जाह्नवीतोयं अन्यत्र रुधिरं भवेत् ॥ १०३॥ मण्डलात्पूर्वतो देवा पितृविप्रैस्तथोत्तरे | कर्ता कुर्वीत ईशाने श्राद्ध आचमनं स्मृतम् ||१०४ || हस्तप्रक्षालनादूर्ध्वं पाणिभ्यां पात्रधारणम् । संकल्पे दक्षिणे त्याज्यं भुक्त्वा वामं विमुत्सृजेत् ॥ १०५ ॥ ब्राह्मणानासनं वस्त्रं तिलमिश्रं तथैव च । पितृनानि (?) देवादि काष्ठासनानि वर्जयेत् ||१०६ || सव्यं तु देवमस्थानमर्चयेत्पश्चिमामुखम् । अपसव्यं पितृस्थानमर्चयेद्दक्षिणस्तथा ॥ १०७॥ श्राद्धरम्भेऽवसाने च पादशौचे तथार्चने । विकरे पिण्डदाने च षट्सु आचमनं स्मृतम् ||१०८|| स्वागते स्वस्तिवचने गोत्रशेषे प्रदक्षिणे । अर्घ्यं च दक्षिणादाने षट्सु सव्यं विधीयते ॥ १०६॥ प्रातःकाले शुचिः स्नात्वा पाकनिष्पतितो यदा । गृहन्तु पितृकार्याणि मुनीनां सर्वतोद्विजः ॥ ११०॥ अपुत्रा म्रियते भर्तुः गोत्रजानाननाशयत् । स्त्रीणां च कुरुते श्राद्धं पुत्राभावेति सर्वथा ॥ १११॥ स्त्रीणां कुरुते श्राद्धं गोत्रमुच्चारणं कथम् । अमुकगोत्राय भर्तुश्च पिताप्रपितामहाय च ॥ ११२।। उत्तरीयाभावे च वस्त्रं सव्यापसव्यकर्मणि ।
गोत्रनामस्वधाकारैः भतुः श्राद्धं तु कारयेत् ॥ ११३ ॥
२५०१