Book Title: Smruti Sandarbh Part 04
Author(s): Maharshi
Publisher: Nag Publishers

View full book text
Previous | Next

Page 686
________________ आचारधर्मवर्णनम् २४६५ सूतके समनुप्राप्त वर्जनीयः प्रयत्नतः । मृत्तिका चन्दनं भस्म तथा तोयं चतुर्थकम् ॥४१॥ एमिद्रव्यैर्यथाकालं तिलकं तु समाचरेत् । देवानां च तथा शैवे नाभ्यंगे न च शूद्रतः॥४२॥ अभ्यङ्गाद्धरते लक्ष्मी शूद्रस्य नरकं ध्रुवम् । तर्जनी रौप्यसंयुक्तां ब्रह्मपन्थियुतां शिखाम् ॥४३॥ भोजने मैथुने मूत्रे कृत्वा कृच्छ समाचरेत् । तर्जन्यां च धृतं रौप्यं ब्रह्मग्रन्थौ च मूर्द्धनि ॥४४॥ भोजने मैथुने मूत्रे कुर्वन्कृच्छण शुध्यति । शिखावंधं विमुच्याथ हस्तप्रक्षालनं स्मृतम् ।।४।। न करोति स मूढात्मा तदन्नं केशदूषितम् । प्राङ्मुखोदङ्मुखो वापि कुर्यादाचमनं तदा ॥४६॥ पश्चिमे पुनराचम्य दक्षिणे स्नानमाचरेत् । गोकर्णकृतहस्तेन माषमात्रं जलं पिबेत् ॥४७॥ तन्न्यूनमधिकं चैव तज्जलं रुधिरं भवेत् । अनुष्णाभिरफेनाभिरभिर्ह द्याभिरंततः॥ ब्राह्मणो ब्रह्मतीर्थन दृष्टिपूताभिराचमेत् ।।४।। हृत्कण्ठतालुकाभिश्च यथासंख्यं द्विजातयः । स्त्रीशूद्रवास्यसंस्पर्शमात्रेणापि विशुद्धयति ॥४६॥ अंगुष्ठाप तु संमृज्य मध्यमा मध्यपर्वसु । योजीतामेण हस्तेन स वै गोकणिकः स्मृतः ॥५०॥

Loading...

Page Navigation
1 ... 684 685 686 687 688 689 690 691 692 693 694 695 696 697 698 699 700 701 702 703 704 705 706 707 708 709 710 711 712 713 714 715 716 717 718 719 720