________________
आचारधर्मवर्णनम्
२४६५ सूतके समनुप्राप्त वर्जनीयः प्रयत्नतः । मृत्तिका चन्दनं भस्म तथा तोयं चतुर्थकम् ॥४१॥ एमिद्रव्यैर्यथाकालं तिलकं तु समाचरेत् । देवानां च तथा शैवे नाभ्यंगे न च शूद्रतः॥४२॥ अभ्यङ्गाद्धरते लक्ष्मी शूद्रस्य नरकं ध्रुवम् । तर्जनी रौप्यसंयुक्तां ब्रह्मपन्थियुतां शिखाम् ॥४३॥ भोजने मैथुने मूत्रे कृत्वा कृच्छ समाचरेत् । तर्जन्यां च धृतं रौप्यं ब्रह्मग्रन्थौ च मूर्द्धनि ॥४४॥ भोजने मैथुने मूत्रे कुर्वन्कृच्छण शुध्यति । शिखावंधं विमुच्याथ हस्तप्रक्षालनं स्मृतम् ।।४।। न करोति स मूढात्मा तदन्नं केशदूषितम् । प्राङ्मुखोदङ्मुखो वापि कुर्यादाचमनं तदा ॥४६॥ पश्चिमे पुनराचम्य दक्षिणे स्नानमाचरेत् । गोकर्णकृतहस्तेन माषमात्रं जलं पिबेत् ॥४७॥ तन्न्यूनमधिकं चैव तज्जलं रुधिरं भवेत् । अनुष्णाभिरफेनाभिरभिर्ह द्याभिरंततः॥ ब्राह्मणो ब्रह्मतीर्थन दृष्टिपूताभिराचमेत् ।।४।। हृत्कण्ठतालुकाभिश्च यथासंख्यं द्विजातयः । स्त्रीशूद्रवास्यसंस्पर्शमात्रेणापि विशुद्धयति ॥४६॥ अंगुष्ठाप तु संमृज्य मध्यमा मध्यपर्वसु । योजीतामेण हस्तेन स वै गोकणिकः स्मृतः ॥५०॥